03.197
मार्कण्डेय उवाच॥
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः। तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥०३-१९७-१॥
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः। स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥०३-१९७-२॥
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत। तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥०३-१९७-३॥
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः। भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ॥०३-१९७-४॥
अपध्याता च विप्रेण न्यपतद्वसुधातले। बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ॥ कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः ॥०३-१९७-५॥
अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः। इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ॥०३-१९७-६॥
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ। प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः ॥०३-१९७-७॥
देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः। शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ॥०३-१९७-८॥
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम्। भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥०३-१९७-९॥
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम्। पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ॥०३-१९७-१०॥
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा। आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥०३-१९७-११॥
उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर। दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥०३-१९७-१२॥
न कर्मणा न मनसा नात्यश्नान्नापि चापिबत्। तं सर्वभावोपगता पतिशुश्रूषणे रता ॥०३-१९७-१३॥
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी। भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ॥०३-१९७-१४॥
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा। शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥०३-१९७-१५॥
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम्। कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥०३-१९७-१६॥
व्रीडिता साभवत्साध्वी तदा भरतसत्तम। भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥०३-१९७-१७॥
ब्राह्मण उवाच॥
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने। उपरोधं कृतवती न विसर्जितवत्यसि ॥०३-१९७-१८॥
मार्कण्डेय उवाच॥
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा। दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥०३-१९७-१९॥
क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत्। स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ॥०३-१९७-२०॥
ब्राह्मण उवाच॥
ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः। गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥०३-१९७-२१॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि। अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥०३-१९७-२२॥
स्त्र्युवाच॥
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः। अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥०३-१९७-२३॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम्। अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥०३-१९७-२४॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम्। येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥०३-१९७-२५॥
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान्। अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥०३-१९७-२६॥
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम्। क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ॥०३-१९७-२७॥
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ। पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ॥०३-१९७-२८॥
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम्। अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ॥०३-१९७-२९॥
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम्। बलाका हि त्वया दग्धा रोषात्तद्विदितं मम ॥०३-१९७-३०॥
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम। यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥०३-१९७-३१॥
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च। हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥०३-१९७-३२॥
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः। कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ॥०३-१९७-३३॥
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः। सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥०३-१९७-३४॥
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा। दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥०३-१९७-३५॥
ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः। स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥०३-१९७-३६॥
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत्। सत्यं तथा व्याहरतां नानृते रमते मनः ॥०३-१९७-३७॥
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम्। इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥ सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ॥०३-१९७-३८॥
दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः। श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ॥०३-१९७-३९॥
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम। भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ॥ न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ॥०३-१९७-४०॥
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः। मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ॥०३-१९७-४१॥
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित। स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ॥०३-१९७-४२॥
ब्राह्मण उवाच॥
प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने। उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ॥ स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥०३-१९७-४३॥
मार्कण्डेय उवाच॥
तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ। विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ॥०३-१९७-४४॥