Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.195
मार्कण्डेय उवाच॥
धुन्धुर्नाम महातेजास्तयोः पुत्रो महाद्युतिः। स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥०३-१९५-१॥
अतिष्ठदेकपादेन कृशो धमनिसन्ततः। तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभो ॥०३-१९५-२॥
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्। अवध्योऽहं भवेयं वै वर एष वृतो मया ॥०३-१९५-३॥
एवं भवतु गच्छेति तमुवाच पितामहः। स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृश्य जगाम ह ॥०३-१९५-४॥
स तु धुन्धुर्वरं लब्ध्वा महावीर्यपराक्रमः। अनुस्मरन्पितृवधं ततो विष्णुमुपाद्रवत् ॥०३-१९५-५॥
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः। बबाध सर्वानसकृद्देवान्विष्णुं च वै भृशम् ॥०३-१९५-६॥
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः। आगम्य च स दुष्टात्मा तं देशं भरतर्षभ ॥ बाधते स्म परं शक्त्या तमुत्तङ्काश्रमं प्रभो ॥०३-१९५-७॥
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तदा। मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥०३-१९५-८॥
शेते लोकविनाशाय तपोबलसमाश्रितः। उत्तङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥०३-१९५-९॥
एतस्मिन्नेव काले तु सभृत्यबलवाहनः। कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥०३-१९५-१०॥
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः। प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवेशनम् ॥०३-१९५-११॥
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः। उत्तङ्कस्य नियोगेन लोकानां हितकाम्यया ॥०३-१९५-१२॥
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्। एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥०३-१९५-१३॥
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्। देवदुन्दुभयश्चैव नेदुः स्वयमुदीरिताः ॥०३-१९५-१४॥
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः ॥०३-१९५-१५॥
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर। तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥०३-१९५-१६॥
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः। देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥०३-१९५-१७॥
नारायणेन कौरव्य तेजसाप्यायितस्तदा। स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतोदिशम् ॥०३-१९५-१८॥
अर्णवं खानयामास कुवलाश्वो महीपतिः। कुवलाश्वस्य पुत्रैस्तु तस्मिन्वै वालुकार्णवे ॥०३-१९५-१९॥
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः। आसीद्घोरं वपुस्तस्य वालुकान्तर्हितं महत् ॥ दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥०३-१९५-२०॥
ततो धुन्धुर्महाराज दिशमाश्रित्य पश्चिमाम्। सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥०३-१९५-२१॥
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः। अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ पट्टिशैः परिघैः प्रासैः खड्गैश्च विमलैः शितैः ॥०३-१९५-२२॥
स वध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः। क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ॥०३-१९५-२३॥
आस्याद्वमन्पावकं स संवर्तकसमं तदा। तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ॥०३-१९५-२४॥
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव। क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ॥ सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥०३-१९५-२५॥
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम। तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् ॥ आससाद महातेजाः कुवलाश्वो महीपतिः ॥०३-१९५-२६॥
तस्य वारि महाराज सुस्राव बहु देहतः। तदापीयत तत्तेजो राजा वारिमयं नृप ॥ योगी योगेन वह्निं च शमयामास वारिणा ॥०३-१९५-२७॥
ब्रह्मास्त्रेण तदा राजा दैत्यं क्रूरपराक्रमम्। ददाह भरतश्रेष्ठ सर्वलोकाभयाय वै ॥०३-१९५-२८॥
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्। सुरशत्रुममित्रघ्नस्त्रिलोकेश इवापरः ॥ धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ॥०३-१९५-२९॥
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा। वरं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा ॥ अतीव मुदितो राजन्निदं वचनमब्रवीत् ॥०३-१९५-३०॥
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः। सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च ॥ धर्मे रतिश्च सततं स्वर्गे वासस्तथाक्षयः ॥०३-१९५-३१॥
तथास्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः। ऋषिभिश्च सगन्धर्वैरुत्तङ्केन च धीमता ॥०३-१९५-३२॥
सभाज्य चैनं विविधैराशीर्वादैस्ततो नृपम्। देवा महर्षयश्चैव स्वानि स्थानानि भेजिरे ॥०३-१९५-३३॥
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाभवन्। दृढाश्वः कपिलाश्वश्च चन्द्राश्वश्चैव भारत ॥ तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ॥०३-१९५-३४॥
एवं स निहतस्तेन कुवलाश्वेन सत्तम। धुन्धुर्दैत्यो महावीर्यो मधुकैटभयोः सुतः ॥०३-१९५-३५॥
कुवलाश्वस्तु नृपतिर्धुन्धुमार इति स्मृतः। नाम्ना च गुणसंयुक्तस्तदा प्रभृति सोऽभवत् ॥०३-१९५-३६॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥०३-१९५-३७॥
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्। शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥०३-१९५-३८॥
आयुष्मान्धृतिमांश्चैव श्रुत्वा भवति पर्वसु। न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः ॥०३-१९५-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.