Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.198
ब्राह्मणव्याधसंवादः
मार्कण्डेय उवाच॥
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः। विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥०३-१९८-१॥
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत्। श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥०३-१९८-२॥
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल। तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥०३-१९८-३॥
इति सञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः। बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥ सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥०३-१९८-४॥
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च। ततो जगाम मिथिलां जनकेन सुरक्षिताम् ॥०३-१९८-५॥
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम्। गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ॥०३-१९८-६॥
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम्। पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥०३-१९८-७॥
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम्। हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥०३-१९८-८॥
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन्। धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥०३-१९८-९॥
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम्। मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ॥ आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥०३-१९८-१०॥
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः। आजगाम यतो विप्रः स्थित एकान्त आसने ॥०३-१९८-११॥
व्याध उवाच॥
अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम। अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥०३-१९८-१२॥
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति। जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥०३-१९८-१३॥
मार्कण्डेय उवाच॥
श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः। द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥०३-१९८-१४॥
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम्। गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥०३-१९८-१५॥
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत्। अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥०३-१९८-१६॥
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः। पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥०३-१९८-१७॥
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत्। कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ॥ अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥०३-१९८-१८॥
व्याध उवाच॥
कुलोचितमिदं कर्म पितृपैतामहं मम। वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥०३-१९८-१९॥
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम्। प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥०३-१९८-२०॥
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च। देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥०३-१९८-२१॥
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम्। कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥०३-१९८-२२॥
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम्। दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥०३-१९८-२३॥
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः। ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥०३-१९८-२४॥
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः। विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥०३-१९८-२५॥
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते। मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥०३-१९८-२६॥
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते। स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥०३-१९८-२७॥
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम्। दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥०३-१९८-२८॥
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति। श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥०३-१९८-२९॥
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम्। सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥०३-१९८-३०॥
परेण हि हतान्ब्रह्मन्वराहमहिषानहम्। न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥०३-१९८-३१॥
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम्। सदोपवासी च तथा नक्तभोजी तथा द्विज ॥०३-१९८-३२॥
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान्। प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥०३-१९८-३३॥
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान्। अधर्मो वर्धते चापि सङ्कीर्यन्ते तथा प्रजाः ॥०३-१९८-३४॥
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च। क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ॥ पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥०३-१९८-३५॥
स एष राजा जनकः सर्वं धर्मेण पश्यति। अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥०३-१९८-३६॥
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः। सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥०३-१९८-३७॥
ये जीवन्ति स्वधर्मेण सम्भुञ्जन्ते च पार्थिवाः। न किञ्चिदुपजीवन्ति दक्षा उत्थानशीलिनः ॥०३-१९८-३८॥
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता। यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥ त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥०३-१९८-३९॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः। न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥०३-१९८-४०॥
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत्। न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥०३-१९८-४१॥
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न समाचरेत्। यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥०३-१९८-४२॥
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत्। आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥०३-१९८-४३॥
कर्म चैतदसाधूनां वृजिनानामसाधुवत्। न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ॥ अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥०३-१९८-४४॥
महादृतिरिवाध्मातः पापो भवति नित्यदा। मूढानामवलिप्तानामसारं भाषितं भवेत् ॥ दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥०३-१९८-४५॥
न लोके राजते मूर्खः केवलात्मप्रशंसया। अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥०३-१९८-४६॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्। न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ॥०३-१९८-४७॥
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते। नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥०३-१९८-४८॥
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम। एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥०३-१९८-४९॥
पापान्यबुद्ध्वेह पुरा कृतानि; प्राग्धर्मशीलो विनिहन्ति पश्चात्। धर्मो ब्रह्मन्नुदते पूरुषाणां; यत्कुर्वते पापमिह प्रमादात् ॥०३-१९८-५०॥
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः। चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥०३-१९८-५१॥
वसनस्येव छिद्राणि साधूनां विवृणोति यः। पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ॥ मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥०३-१९८-५२॥
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति। एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥०३-१९८-५३॥
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम। लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ॥ अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥०३-१९८-५४॥
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः। सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥०३-१९८-५५॥
मार्कण्डेय उवाच॥
स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत। शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥ एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥०३-१९८-५६॥
व्याध उवाच॥
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम। पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥०३-१९८-५७॥
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम्। धर्म इत्येव सन्तुष्टास्ते शिष्टाः शिष्टसंमताः ॥०३-१९८-५८॥
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम्। आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥०३-१९८-५९॥
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च। एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥०३-१९८-६०॥
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः। यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥०३-१९८-६१॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः। दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥०३-१९८-६२॥
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः। अपथा गच्छतां तेषामनुयातापि पीड्यते ॥०३-१९८-६३॥
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः। धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥०३-१९८-६४॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः। उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥०३-१९८-६५॥
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान्। त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥०३-१९८-६६॥
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम्। नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥०३-१९८-६७॥
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान्। शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥०३-१९८-६८॥
अहिंसा सत्यवचनं सर्वभूतहितं परम्। अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ॥ सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥०३-१९८-६९॥
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम्। आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥०३-१९८-७०॥
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते। पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥०३-१९८-७१॥
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः। अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥०३-१९८-७२॥
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः। ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ॥०३-१९८-७३॥
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः। गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥०३-१९८-७४॥
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम्। स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ॥०३-१९८-७५॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्। धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥०३-१९८-७६॥
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः। श्रुतवृत्तोपसम्पन्नाः ते सन्तः स्वर्गगामिनः ॥०३-१९८-७७॥
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः। शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥०३-१९८-७८॥
पारणं चापि विद्यानां तीर्थानामवगाहनम्। क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥०३-१९८-७९॥
सर्वभूतदयावन्तो अहिंसानिरताः सदा। परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ॥०३-१९८-८०॥
शुभानामशुभानां च कर्मणां फलसञ्चये। विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥०३-१९८-८१॥
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः। सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥०३-१९८-८२॥
दातारः संविभक्तारो दीनानुग्रहकारिणः। सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥०३-१९८-८३॥
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः। दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥०३-१९८-८४॥
पीडया च कलत्रस्य भृत्यानां च समाहिताः। अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥०३-१९८-८५॥
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च। एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥०३-१९८-८६॥
अहिंसा सत्यवचनमानृशंस्यमथार्जवम्। अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥०३-१९८-८७॥
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः। अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥०३-१९८-८८॥
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम्। न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥०३-१९८-८९॥
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः। गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ॥ शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥०३-१९८-९०॥
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता। कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ॥०३-१९८-९१॥
कर्मणा श्रुतसम्पन्नं सतां मार्गमनुत्तमम्। शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥०३-१९८-९२॥
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान्। प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ॥ अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥०३-१९८-९३॥
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम्। शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥०३-१९८-९४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.