Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.199
मार्कण्डेय उवाच॥
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर। यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥०३-१९९-१॥
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम्। पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ॥ दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ॥०३-१९९-२॥
विधिना विहिते पूर्वं निमित्तं घातको भवेत्। निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥०३-१९९-३॥
येषां हतानां मांसानि विक्रीणामो वयं द्विज। तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ॥ देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ॥०३-१९९-४॥
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः। अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥०३-१९९-५॥
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः। स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥०३-१९९-६॥
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज। द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ॥०३-१९९-७॥
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः। अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥ चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ॥०३-१९९-८॥
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः। यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ॥ संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥०३-१९९-९॥
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा। भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ॥०३-१९९-१०॥
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे। देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ॥ यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ॥०३-१९९-११॥
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः। भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥०३-१९९-१२॥
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते। सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ॥ शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥०३-१९९-१३॥
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम। पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ॥०३-१९९-१४॥
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते। स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ॥०३-१९९-१५॥
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति। धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ॥०३-१९९-१६॥
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता। कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥ कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् ॥०३-१९९-१७॥
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा। द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥ अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ॥०३-१९९-१८॥
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता। कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ॥ जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ॥०३-१९९-१९॥
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम। सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते ॥०३-१९९-२०॥
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च। वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ॥०३-१९९-२१॥
जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च। उदके बहवश्चापि तत्र किं प्रतिभाति ते ॥०३-१९९-२२॥
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः। मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ॥०३-१९९-२३॥
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम। प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ॥०३-१९९-२४॥
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्। पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥०३-१९९-२५॥
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः। ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ॥०३-१९९-२६॥
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा। अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥०३-१९९-२७॥
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा। के न हिंसन्ति जीवन्वै लोकेऽस्मिन्द्विजसत्तम ॥ बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥०३-१९९-२८॥
अहिंसायां तु निरता यतयो द्विजसत्तम। कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥०३-१९९-२९॥
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः। महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥०३-१९९-३०॥
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः। सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ॥०३-१९९-३१॥
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि। गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ॥०३-१९९-३२॥
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम। धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥०३-१९९-३३॥
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु। स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥०३-१९९-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.