Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.200
मार्कण्डेय उवाच॥
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर। विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥०३-२००-१॥
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम्। सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥०३-२००-२॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्। अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥०३-२००-३॥
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा। विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥०३-२००-४॥
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम। अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥०३-२००-५॥
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम्। आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥०३-२००-६॥
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम। सुखदुःखविपर्यासो यदा समुपपद्यते ॥ नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥०३-२००-७॥
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात्। यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ॥०३-२००-८॥
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः। दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥०३-२००-९॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः। वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥०३-२००-१०॥
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति। कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥०३-२००-११॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः। दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥०३-२००-१२॥
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः। विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥०३-२००-१३॥
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः। आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥०३-२००-१४॥
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः। व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥०३-२००-१५॥
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः। न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥०३-२००-१६॥
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः। दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥०३-२००-१७॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम्। स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥०३-२००-१८॥
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः। नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥०३-२००-१९॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते। यतते च यथाशक्ति न च तद्वर्तते तथा ॥०३-२००-२०॥
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः। महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ॥०३-२००-२१॥
न कश्चिदीशते ब्रह्मन्स्वयङ्ग्राहस्य सत्तम। कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥०३-२००-२२॥
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः। शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥०३-२००-२३॥
वध्यमाने शरीरे तु देहनाशो भवत्युत। जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥०३-२००-२४॥
ब्राह्मण उवाच॥
कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः। एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥०३-२००-२५॥
व्याध उवाच॥
न जीवनाशोऽस्ति हि देहभेदे; मिथ्यैतदाहुर्म्रियतेति मूढाः। जीवस्तु देहान्तरितः प्रयाति; दशार्धतैवास्य शरीरभेदः ॥०३-२००-२६॥
अन्यो हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी। यत्तेन किञ्चिद्धि कृतं हि कर्म; तदश्नुते नास्ति कृतस्य नाशः ॥०३-२००-२७॥
अपुण्यशीलाश्च भवन्ति पुण्या; नरोत्तमाः पापकृतो भवन्ति। नरोऽनुयातस्त्विह कर्मभिः स्वै; स्ततः समुत्पद्यति भावितस्तैः ॥०३-२००-२८॥
ब्राह्मण उवाच॥
कथं सम्भवते योनौ कथं वा पुण्यपापयोः। जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥०३-२००-२९॥
व्याध उवाच॥
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते। समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥०३-२००-३०॥
यथा सम्भृतसम्भारः पुनरेव प्रजायते। शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥०३-२००-३१॥
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत्। मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥०३-२००-३२॥
जातिमृत्युजरादुःखैः सततं समभिद्रुतः। संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥०३-२००-३३॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च। जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः ॥०३-२००-३४॥
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः। तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥०३-२००-३५॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु। पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥०३-२००-३६॥
अजस्रमेव दुःखार्तोऽदुःखितः सुखसञ्ज्ञितः। ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ॥ परिक्रामति संसारे चक्रवद्बहुवेदनः ॥०३-२००-३७॥
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः। प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ॥०३-२००-३८॥
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति। तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥०३-२००-३९॥
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते। सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥०३-२००-४०॥
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः। प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥०३-२००-४१॥
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत्। असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥०३-२००-४२॥
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः। स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसङ्करः ॥०३-२००-४३॥
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति। तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ॥ तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥०३-२००-४४॥
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति। स मैत्रजनसन्तुष्ट इह प्रेत्य च नन्दति ॥०३-२००-४५॥
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम। प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥०३-२००-४६॥
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज। अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥०३-२००-४७॥
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते। विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥०३-२००-४८॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्। ततो मोक्षे प्रयतते नानुपायादुपायतः ॥०३-२००-४९॥
एवं निर्वेदमादत्ते पापं कर्म जहाति च। धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥०३-२००-५०॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः। तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥०३-२००-५१॥
इन्द्रियाणां निरोधेन सत्येन च दमेन च। ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥०३-२००-५२॥
ब्राह्मण उवाच॥
इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत। निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥०३-२००-५३॥
कथं च फलमाप्नोति तेषां धर्मभृतां वर। एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥०३-२००-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.