03.201
मार्कण्डेय उवाच॥
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर। प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥०३-२०१-१॥
व्याध उवाच॥
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते। तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥०३-२०१-२॥
ततस्तदर्थं यतते कर्म चारभते महत्। इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥०३-२०१-३॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम्। ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥०३-२०१-४॥
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च। न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥०३-२०१-५॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते। व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ॥ तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ॥०३-२०१-६॥
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम। उत्तरं श्रुतिसम्बद्धं ब्रवीति श्रुतियोजितम् ॥०३-२०१-७॥
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः। पापं चिन्तयते चापि ब्रवीति च करोति च ॥०३-२०१-८॥
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः। एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ॥०३-२०१-९॥
स तेनासुखमाप्नोति परत्र च विहन्यते। पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ॥०३-२०१-१०॥
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति। कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ॥ तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ॥०३-२०१-११॥
ब्राह्मण उवाच॥
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते। दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ॥०३-२०१-१२॥
व्याध उवाच॥
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा। तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥०३-२०१-१३॥
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम। नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥०३-२०१-१४॥
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः। महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥०३-२०१-१५॥
महाभूतानि खं वायुरग्निरापस्तथा च भूः। शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥०३-२०१-१६॥
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम्। पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥०३-२०१-१७॥
षष्ठस्तु चेतना नाम मन इत्यभिधीयते। सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् ॥०३-२०१-१८॥
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा। इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥०३-२०१-१९॥
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः। चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥ एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ॥०३-२०१-२०॥