Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.202
मार्कण्डेय उवाच॥
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत। कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥०३-२०२-१॥
ब्राह्मण॥
महाभूतानि यान्याहुः पञ्च धर्मविदां वर। एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥०३-२०२-२॥
व्याध उवाच॥
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च। गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥०३-२०२-३॥
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम्। गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥०३-२०२-४॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः। एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥०३-२०२-५॥
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम। अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥०३-२०२-६॥
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः। शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च ॥०३-२०२-७॥
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु। वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥ अन्योन्यं नातिवर्तन्ते सम्पच्च भवति द्विज ॥०३-२०२-८॥
यदा तु विषमीभावमाचरन्ति चराचराः। तदा देही देहमन्यं व्यतिरोहति कालतः ॥०३-२०२-९॥
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः। तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ॥ यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥०३-२०२-१०॥
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम्। अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥०३-२०२-११॥
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु। इन्द्रियाणि यदा देही धारयन्निह तप्यते ॥०३-२०२-१२॥
लोके विततमात्मानं लोकं चात्मनि पश्यति। परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ॥०३-२०२-१३॥
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा। ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥०३-२०२-१४॥
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम्। लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ॥०३-२०२-१५॥
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम्। अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥ तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ॥०३-२०२-१६॥
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ। निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥०३-२०२-१७॥
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम्। एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ॥०३-२०२-१८॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्। संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते ॥०३-२०२-१९॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति। न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥०३-२०२-२०॥
रथः शरीरं पुरुषस्य दृष्ट; मात्मा नियन्तेन्द्रियाण्याहुरश्वान्। तैरप्रमत्तः कुशली सदश्वै; र्दान्तैः सुखं याति रथीव धीरः ॥०३-२०२-२१॥
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम्। यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥०३-२०२-२२॥
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु। धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥०३-२०२-२३॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि ॥०३-२०२-२४॥
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥०३-२०२-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.