03.203
मार्कण्डेय उवाच॥
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत। ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ॥०३-२०३-१॥
ब्राह्मण उवाच॥
सत्त्वस्य रजसश्चैव तमसश्च यथातथम्। गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥०३-२०३-२॥
व्याध उवाच॥
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि। एषां गुणान्पृथक्त्वेन निबोध गदतो मम ॥०३-२०३-३॥
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम्। प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥०३-२०३-४॥
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः। दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ॥०३-२०३-५॥
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः। विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥०३-२०३-६॥
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः। अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ॥०३-२०३-७॥
सात्त्विकस्त्वथ सम्बुद्धो लोकवृत्तेन क्लिश्यते। यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ॥०३-२०३-८॥
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते। मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ॥०३-२०३-९॥
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम्। न चास्य संयमो नाम क्वचिद्भवति कश्चन ॥०३-२०३-१०॥
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः। वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥०३-२०३-११॥
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते। गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥०३-२०३-१२॥
ब्राह्मण उवाच॥
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत्। अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥०३-२०३-१३॥
मार्कण्डेय उवाच॥
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर। व्याधः स कथयामास ब्राह्मणाय महात्मने ॥०३-२०३-१४॥
व्याध उवाच॥
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन्। प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ॥०३-२०३-१५॥
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे। स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ॥ मनो बुद्धिरहङ्कारो भूतानां विषयश्च सः ॥०३-२०३-१६॥
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते। पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥०३-२०३-१७॥
बस्तिमूले गुदे चैव पावकः समुपाश्रितः। वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥०३-२०३-१८॥
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते। उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥०३-२०३-१९॥
सन्धौ सन्धौ संनिविष्टः सर्वेष्वपि तथानिलः। शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ॥०३-२०३-२०॥
धातुष्वग्निस्तु विततः स तु वायुसमीरितः। रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥०३-२०३-२१॥
प्राणानां संनिपातात्तु संनिपातः प्रजायते। ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥०३-२०३-२२॥
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ। समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥०३-२०३-२३॥
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः। स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥०३-२०३-२४॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते। स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥०३-२०३-२५॥
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः। नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥०३-२०३-२६॥
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा। वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥०३-२०३-२७॥
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम्। जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ॥ एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ॥०३-२०३-२८॥
एकादशविकारात्मा कलासम्भारसम्भृतः। मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ॥०३-२०३-२९॥
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः। आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ॥०३-२०३-३०॥
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे। क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ॥०३-२०३-३१॥
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा। जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ॥०३-२०३-३२॥
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्। ततः परं क्षेत्रविदो वदन्ति; प्राकल्पयद्यो भुवनानि सप्त ॥०३-२०३-३३॥
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥०३-२०३-३४॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम्। प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥०३-२०३-३५॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्। निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥०३-२०३-३६॥
पूर्वरात्रे परे चैव युञ्जानः सततं मनः। लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ॥०३-२०३-३७॥
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति। दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ॥०३-२०३-३८॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः। एतत्पवित्रं यज्ञानां तपो वै सङ्क्रमो मतः ॥०३-२०३-३९॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात्। विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥०३-२०३-४०॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम्। आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ॥०३-२०३-४१॥
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत्। यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥०३-२०३-४२॥
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा। त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥०३-२०३-४३॥
यतो न गुरुरप्येनं च्यावयेदुपपादयन्। तं विद्याद्ब्रह्मणो योगं वियोगं योगसञ्ज्ञितम् ॥०३-२०३-४४॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत्। नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥०३-२०३-४५॥
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम्। एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥०३-२०३-४६॥
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः। अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ॥०३-२०३-४७॥
तपोनित्येन दान्तेन मुनिना संयतात्मना। अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥०३-२०३-४८॥
गुणागुणमनासङ्गमेककार्यमनन्तरम्। एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् ॥०३-२०३-४९॥
परित्यजति यो दुःखं सुखं चाप्युभयं नरः। ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ॥०३-२०३-५०॥
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥०३-२०३-५१॥