03.204
मार्कण्डेय उवाच॥
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर। दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ॥०३-२०४-१॥
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम्। न तेऽस्त्यविदितं किञ्चिद्धर्मेष्विह हि दृश्यते ॥०३-२०४-२॥
व्याध उवाच॥
प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम। येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥०३-२०४-३॥
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम्। द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥०३-२०४-४॥
मार्कण्डेय उवाच॥
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम्। सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥०३-२०४-५॥
देवतागृहसङ्काशं दैवतैश्च सुपूजितम्। शयनासनसम्बाधं गन्धैश्च परमैर्युतम् ॥०३-२०४-६॥
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ। कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ॥ धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥०३-२०४-७॥
वृद्धावूचतुः॥
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु। प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ॥ सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥०३-२०४-८॥
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते। प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥०३-२०४-९॥
पितुः पितामहा ये च तथैव प्रपितामहाः। प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥०३-२०४-१०॥
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते। न चान्या वितथा बुद्धिर्दृश्यते साम्प्रतं तव ॥०३-२०४-११॥
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ। तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥०३-२०४-१२॥
मार्कण्डेय उवाच॥
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत्। तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥०३-२०४-१३॥
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ। सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ॥ अनामयं च वां कच्चित्सदैवेह शरीरयोः ॥०३-२०४-१४॥
वृद्धावूचतुः॥
कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः। कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निह ॥०३-२०४-१५॥
मार्कण्डेय उवाच॥
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः। धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥०३-२०४-१६॥
पिता माता च भगवन्नेतौ मे दैवतं परम्। यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥०३-२०४-१७॥
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः। सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥०३-२०४-१८॥
उपहारानाहरन्तो देवतानां यथा द्विजाः। कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥०३-२०४-१९॥
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम्। एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ॥०३-२०४-२०॥
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः। यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥०३-२०४-२१॥
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः। सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥०३-२०४-२२॥
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये। आहारं सम्प्रयच्छामि स्वयं च द्विजसत्तम ॥०३-२०४-२३॥
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन्। अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥०३-२०४-२४॥
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम। अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥०३-२०४-२५॥
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः। पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ॥०३-२०४-२६॥
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम। भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ॥ गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥०३-२०४-२७॥