03.206
व्याध उवाच॥
एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम। अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ॥०३-२०६-१॥
अजानता मयाकार्यमिदमद्य कृतं मुने। क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥०३-२०६-२॥
ऋषिरुवाच॥
नान्यथा भविता शाप एवमेतदसंशयम्। आनृशंस्यादहं किञ्चित्कर्तानुग्रहमद्य ते ॥०३-२०६-३॥
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि। मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ॥०३-२०६-४॥
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि। जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ॥ शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ॥०३-२०६-५॥
व्याध उवाच॥
एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा। प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ॥०३-२०६-६॥
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम। आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥०३-२०६-७॥
एतत्ते सर्वमाख्यातं यथा मम पुराभवत्। अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ॥०३-२०६-८॥
ब्राह्मण उवाच॥
एवमेतानि पुरुषा दुःखानि च सुखानि च। प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥ दुष्करं हि कृतं तात जानता जातिमात्मनः ॥०३-२०६-९॥
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै। कञ्चित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ॥ साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥०३-२०६-१०॥
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु। दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥०३-२०६-११॥
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः। तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥०३-२०६-१२॥
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम्। क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥०३-२०६-१३॥
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः। लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ॥०३-२०६-१४॥
व्याध उवाच॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः। एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् ॥०३-२०६-१५॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च। मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥०३-२०६-१६॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च। सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥०३-२०६-१७॥
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते। ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥ शोचतो न भवेत्किञ्चित्केवलं परितप्यते ॥०३-२०६-१८॥
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः। त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ॥०३-२०६-१९॥
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः। असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ॥ न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥०३-२०६-२०॥
न विषादे मनः कार्यं विषादो विषमुत्तमम्। मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥०३-२०६-२१॥
यं विषादोऽभिभवति विषमे समुपस्थिते। तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥०३-२०६-२२॥
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम्। न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ॥०३-२०६-२३॥
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे। अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥०३-२०६-२४॥
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः। न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥०३-२०६-२५॥
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम्। एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥०३-२०६-२६॥
ब्राह्मण उवाच॥
कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव। नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥०३-२०६-२७॥
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु। अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ॥०३-२०६-२८॥
मार्कण्डेय उवाच॥
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह। प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥०३-२०६-२९॥
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा। मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ॥०३-२०६-३०॥
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर। पृष्टवानसि यं तात धर्मं धर्मभृतां वर ॥०३-२०६-३१॥
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम। मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ॥०३-२०६-३२॥
युधिष्ठिर उवाच॥
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्। सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ॥०३-२०६-३३॥
सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम्। न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥०३-२०६-३४॥