03.205
मार्कण्डेय उवाच॥
गुरू निवेद्य विप्राय तौ मातापितरावुभौ। पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥०३-२०५-१॥
प्रवृत्तचक्षुर्जातोऽस्मि सम्पश्य तपसो बलम्। यदर्थमुक्तोऽसि तया गच्छस्व मिथिलामिति ॥०३-२०५-२॥
पतिशुश्रूषपरया दान्तया सत्यशीलया। मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥०३-२०५-३॥
ब्राह्मण उवाच॥
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत। संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥०३-२०५-४॥
व्याध उवाच॥
यत्तदा त्वं द्विजश्रेष्ठ तयोक्तो मां प्रति प्रभो। दृष्टमेतत्तया सम्यगेकपत्न्या न संशयः ॥०३-२०५-५॥
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया। वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥०३-२०५-६॥
त्वया विनिकृता माता पिता च द्विजसत्तम। अनिसृष्टोऽसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ॥ वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ॥०३-२०५-७॥
तव शोकेन वृद्धौ तावन्धौ जातौ तपस्विनौ। तौ प्रसादयितुं गच्छ मा त्वा धर्मोऽत्यगान्महान् ॥०३-२०५-८॥
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा। सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय ॥०३-२०५-९॥
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि। गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥०३-२०५-१०॥
ब्राह्मण उवाच॥
यदेतदुक्तं भवता सर्वं सत्यमसंशयम्। प्रीतोऽस्मि तव धर्मज्ञ साध्वाचार गुणान्वित ॥०३-२०५-११॥
व्याध उवाच॥
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः। पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥०३-२०५-१२॥
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम्। अतः परमहं धर्मं नान्यं पश्यामि कञ्चन ॥०३-२०५-१३॥
ब्राह्मण उवाच॥
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया। ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥०३-२०५-१४॥
एको नरसहस्रेषु धर्मविद्विद्यते न वा। प्रीतोऽस्मि तव सत्येन भद्रं ते पुरुषोत्तम ॥०३-२०५-१५॥
पतमानो हि नरके भवतास्मि समुद्धृतः। भवितव्यमथैवं च यद्दृष्टोऽसि मयानघ ॥०३-२०५-१६॥
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा। सद्भिः पुरुषशार्दूल तथाहं भवता त्विह ॥०३-२०५-१७॥
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव। नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥०३-२०५-१८॥
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता। न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥ येन कर्मविपाकेन प्राप्तेयं शूद्रता त्वया ॥०३-२०५-१९॥
एतदिच्छामि विज्ञातुं तत्त्वेन हि महामते। कामया ब्रूहि मे तथ्यं सर्वं त्वं प्रयतात्मवान् ॥०३-२०५-२०॥
व्याध उवाच॥
अनतिक्रमणीया हि ब्राह्मणा वै द्विजोत्तम। शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥०३-२०५-२१॥
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मज। वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः ॥ आत्मदोषकृतैर्ब्रह्मन्नवस्थां प्राप्तवानिमाम् ॥०३-२०५-२२॥
कश्चिद्राजा मम सखा धनुर्वेदपरायणः। संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥०३-२०५-२३॥
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः। सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः ॥ ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥०३-२०५-२४॥
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम। ताडितश्च मुनिस्तेन शरेणानतपर्वणा ॥०३-२०५-२५॥
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन्। नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् ॥०३-२०५-२६॥
मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम्। अपश्यं तमृषिं विद्धं शरेणानतपर्वणा ॥ तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥०३-२०५-२७॥
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः। अजानता कृतमिदं मयेत्यथ तमब्रुवम् ॥ क्षन्तुमर्हसि मे ब्रह्मन्निति चोक्तो मया मुनिः ॥०३-२०५-२८॥
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्छितः। व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥०३-२०५-२९॥