03.207
आङ्गिरसम्
वैशम्पायन उवाच॥
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम्। पुनः पप्रच्छ तमृषिं मार्कण्डेयं तपस्विनम् ॥०३-२०७-१॥
युधिष्ठिर उवाच॥
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा। नष्टेऽग्नौ हव्यमवहदग्निर्भूत्वा महानृषिः ॥०३-२०७-२॥
अग्निर्यदा त्वेक एव बहुत्वं चास्य कर्मसु। दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥०३-२०७-३॥
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत्। यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥०३-२०७-४॥
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवनन्दन। कौतूहलसमाविष्टो यथातथ्यं महामुने ॥०३-२०७-५॥
मार्कण्डेय उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥०३-२०७-६॥
यथा च भगवानग्निः स्वयमेवाङ्गिराभवत्। सन्तापयन्स्वप्रभया नाशयंस्तिमिराणि च ॥०३-२०७-७॥
आश्रमस्थो महाभागो हव्यवाहं विशेषयन्। तथा स भूत्वा तु तदा जगत्सर्वं प्रकाशयन् ॥०३-२०७-८॥
तपश्चरंश्च हुतभुक्सन्तप्तस्तस्य तेजसा। भृशं ग्लानश्च तेजस्वी न स किञ्चित्प्रजज्ञिवान् ॥०३-२०७-९॥
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः। अन्योऽग्निरिह लोकानां ब्रह्मणा सम्प्रवर्तितः ॥ अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः ॥०३-२०७-१०॥
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः। अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् ॥०३-२०७-११॥
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः। शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः ॥ विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥०३-२०७-१२॥
त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद ॥०३-२०७-१३॥
अग्निरुवाच॥
नष्टकीर्तिरहं लोके भवाञ्जातो हुताशनः। भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥०३-२०७-१४॥
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव। भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥०३-२०७-१५॥
अङ्गिरा उवाच॥
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः। मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥०३-२०७-१६॥
मार्कण्डेय उवाच॥
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्। राजन्बृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥०३-२०७-१७॥
ज्ञात्वा प्रथमजं तं तु वह्नेराङ्गिरसं सुतम्। उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥०३-२०७-१८॥
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्। प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा ॥०३-२०७-१९॥
अत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान्। कर्मभिर्बहुभिः ख्यातान्नानात्वं ब्राह्मणेष्विह ॥०३-२०७-२०॥