03.208
मार्कण्डेय उवाच॥
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह। तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ॥०३-२०८-१॥
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः। बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥०३-२०८-२॥
प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत्। देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥०३-२०८-३॥
भूतानामेव सर्वेषां यस्यां रागस्तदाभवत्। रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ॥०३-२०८-४॥
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः। तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ॥०३-२०८-५॥
पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती। षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् ॥०३-२०८-६॥
महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती। महामतीति विख्याता सप्तमी कथ्यते सुता ॥०३-२०८-७॥
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते। एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ॥०३-२०८-८॥