Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.234
वैशम्पायन उवाच॥
ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः। विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥०३-२३४-१॥
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः। रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥०३-२३४-२॥
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः। गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥०३-२३४-३॥
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे। प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥०३-२३४-४॥
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः। न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥०३-२३४-५॥
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा। लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥०३-२३४-६॥
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम्। आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ॥०३-२३४-७॥
तथा भीमो महेष्वासः संयुगे बलिनां वरः। गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥०३-२३४-८॥
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ। परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥०३-२३४-९॥
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः। उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥०३-२३४-१०॥
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः। महता शरजालेन समन्तात्पर्यवारयत् ॥०३-२३४-११॥
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे। ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥०३-२३४-१२॥
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित्। गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ॥०३-२३४-१३॥
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा। अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥०३-२३४-१४॥
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना। भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥०३-२३४-१५॥
तेषां तु शरवर्षाणि सव्यसाची परन्तपः। अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥०३-२३४-१६॥
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः। आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥०३-२३४-१७॥
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः। दैतेया इव शक्रेण विषादमगमन्परम् ॥०३-२३४-१८॥
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः। विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥०३-२३४-१९॥
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता। चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥०३-२३४-२०॥
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे। गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥०३-२३४-२१॥
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना। संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ॥ अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥०३-२३४-२२॥
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा। अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ॥ ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥०३-२३४-२३॥
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा। शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः ॥०३-२३४-२४॥
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना। अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥०३-२३४-२५॥
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम्। सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥०३-२३४-२६॥
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम्। सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥०३-२३४-२७॥
चित्रसेनश्च भीमश्च सव्यसाची यमावपि। पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥०३-२३४-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.