Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.235
वैशम्पायन उवाच॥
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्। मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥०३-२३५-१॥
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे। किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥०३-२३५-२॥
चित्रसेन उवाच॥
विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना। दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय ॥०३-२३५-३॥
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत्। इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ॥०३-२३५-४॥
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः। गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ॥०३-२३५-५॥
धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे। स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ॥०३-२३५-६॥
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम्। अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ॥०३-२३५-७॥
अर्जुन उवाच॥
उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः। धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥०३-२३५-८॥
चित्रसेन उवाच॥
पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति। प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ॥०३-२३५-९॥
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः। जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥०३-२३५-१०॥
वैशम्पायन उवाच॥
ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम्। अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ॥०३-२३५-११॥
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा। मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥०३-२३५-१२॥
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः। दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥०३-२३५-१३॥
उपकारो महांस्तात कृतोऽयं मम खेचराः। कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥०३-२३५-१४॥
आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः। प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ॥०३-२३५-१५॥
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता। सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥०३-२३५-१६॥
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत्। दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥०३-२३५-१७॥
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः। कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥०३-२३५-१८॥
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः। बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ॥०३-२३५-१९॥
ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा। युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ॥०३-२३५-२०॥
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्। न हि साहसकर्तारः सुखमेधन्ति भारत ॥०३-२३५-२१॥
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन। गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥०३-२३५-२२॥
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा। विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ॥०३-२३५-२३॥
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः। भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥०३-२३५-२४॥
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः। वने द्वैतवने तस्मिन्विजहार मुदा युतः ॥०३-२३५-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.