Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.277
सावित्र्युपाख्यानम्
युधिष्ठिर उवाच॥
नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने। हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥०३-२७७-१॥
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्। जयद्रथेन च पुनर्वनादपहृता बलात् ॥०३-२७७-२॥
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता। पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥०३-२७७-३॥
मार्कण्डेय उवाच॥
शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर। सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥०३-२७७-४॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः। ब्रह्मण्यश्च शरण्यश्च सत्यसन्धो जितेन्द्रियः ॥०३-२७७-५॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः। पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥०३-२७७-६॥
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः। अतिक्रान्तेन वयसा सन्तापमुपजग्मिवान् ॥०३-२७७-७॥
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः। काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥०३-२७७-८॥
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम। षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥०३-२७७-९॥
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु। पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ॥०३-२७७-१०॥
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता। उवाच चैनं वरदा वचनं पार्थिवं तदा ॥०३-२७७-११॥
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च। सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥०३-२७७-१२॥
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम्। न प्रमादश्च धर्मेषु कर्तव्यस्ते कथञ्चन ॥०३-२७७-१३॥
अश्वपतिरुवाच॥
अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया। पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥०३-२७७-१४॥
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम्। सन्तानं हि परो धर्म इत्याहुर्मां द्विजातयः ॥०३-२७७-१५॥
सावित्र्युवाच॥
पूर्वमेव मया राजन्नभिप्रायमिमं तव। ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ॥०३-२७७-१६॥
प्रसादाच्चैव तस्मात्ते स्वयम्भुविहिताद्भुवि। कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥०३-२७७-१७॥
उत्तरं च न ते किञ्चिद्व्याहर्तव्यं कथञ्चन। पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ॥०३-२७७-१८॥
मार्कण्डेय उवाच॥
स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः। प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ॥०३-२७७-१९॥
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः। स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ॥०३-२७७-२०॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः। ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ॥०३-२७७-२१॥
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ। व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ॥०३-२७७-२२॥
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्। क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ॥०३-२७७-२३॥
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि। सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥०३-२७७-२४॥
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा। कालेन चापि सा कन्या यौवनस्था बभूव ह ॥०३-२७७-२५॥
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव। प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ॥०३-२७७-२६॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा। न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥०३-२७७-२७॥
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा। हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥०३-२७७-२८॥
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः। पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ॥०३-२७७-२९॥
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च। कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥०३-२७७-३०॥
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्। अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥०३-२७७-३१॥
राजोवाच॥
पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्। स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥०३-२७७-३२॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम। विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥०३-२७७-३३॥
श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः। तथा त्वमपि कल्याणि गदतो मे वचः शृणु ॥०३-२७७-३४॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥०३-२७७-३५॥
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर। देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥०३-२७७-३६॥
मार्कण्डेय उवाच॥
एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः। व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ॥०३-२७७-३७॥
साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी। पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥०३-२७७-३८॥
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता। तपोवनानि रम्याणि राजर्षीणां जगामह ॥०३-२७७-३९॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम्। वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥०३-२७७-४०॥
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा। कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥०३-२७७-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.