03.276
मार्कण्डेय उवाच॥
एवमेतन्महाबाहो रामेणामिततेजसा। प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥०३-२७६-१॥
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप। बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ॥०३-२७६-२॥
न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि। अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ॥०३-२७६-३॥
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना। नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ॥०३-२७६-४॥
सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः। किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः ॥०३-२७६-५॥
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः। युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ ॥ एभिः सहायैः कस्मात्त्वं विषीदसि परन्तप ॥०३-२७६-६॥
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्। त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ॥ विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥०३-२७६-७॥
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना। बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥०३-२७६-८॥
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्। जयद्रथं च राजानं विजितं वशमागतम् ॥०३-२७६-९॥
असहायेन रामेण वैदेही पुनराहृता। हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥०३-२७६-१०॥
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा। जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय ॥०३-२७६-११॥
तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ। त्वद्विधा हि महात्मानो न शोचन्ति परन्तप ॥०३-२७६-१२॥
वैशम्पायन उवाच॥
एवमाश्वासितो राजा मार्कण्डेयेन धीमता। त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत् ॥०३-२७६-१३॥