Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.278
मार्कण्डेय उवाच॥
अथ मद्राधिपो राजा नारदेन समागतः। उपविष्टः सभामध्ये कथायोगेन भारत ॥०३-२७८-१॥
ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा। आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥०३-२७८-२॥
नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा। उभयोरेव शिरसा चक्रे पादाभिवन्दनम् ॥०३-२७८-३॥
नारद उवाच॥
क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप। किमर्थं युवतीं भर्त्रे न चैनां सम्प्रयच्छसि ॥०३-२७८-४॥
अश्वपतिरुवाच॥
कार्येण खल्वनेनैव प्रेषिताद्यैव चागता। तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः ॥०३-२७८-५॥
मार्कण्डेय उवाच॥
सा ब्रूहि विस्तरेणेति पित्रा सञ्चोदिता शुभा। दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत् ॥०३-२७८-६॥
आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः। द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह ॥०३-२७८-७॥
विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः। सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥०३-२७८-८॥
स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्। महारण्यगतश्चापि तपस्तेपे महाव्रतः ॥०३-२७८-९॥
तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने। सत्यवाननुरूपो मे भर्तेति मनसा वृतः ॥०३-२७८-१०॥
नारद उवाच॥
अहो बत महत्पापं सावित्र्या नृपते कृतम्। अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥०३-२७८-११॥
सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते। ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥०३-२७८-१२॥
बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्। चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते ॥०३-२७८-१३॥
राजोवाच॥
अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः। क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः ॥०३-२७८-१४॥
नारद उवाच॥
विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ। महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः ॥०३-२७८-१५॥
अश्वपतिरुवाच॥
अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान्। रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः ॥०३-२७८-१६॥
नारद उवाच॥
साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः। ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा ॥०३-२७८-१७॥
ययातिरिव चोदारः सोमवत्प्रियदर्शनः। रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥०३-२७८-१८॥
स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः। स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः ॥०३-२७८-१९॥
नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा। सङ्क्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते ॥०३-२७८-२०॥
अश्वपतिरुवाच॥
गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे। दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥०३-२७८-२१॥
नारद उवाच॥
एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान्। संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥०३-२७८-२२॥
राजोवाच॥
एहि सावित्रि गच्छ त्वमन्यं वरय शोभने। तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति ॥०३-२७८-२३॥
यथा मे भगवानाह नारदो देवसत्कृतः। संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥०३-२७८-२४॥
सावित्र्युवाच॥
सकृदंशो निपतति सकृत्कन्या प्रदीयते। सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥०३-२७८-२५॥
दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा। सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥०३-२७८-२६॥
मनसा निश्चयं कृत्वा ततो वाचाभिधीयते। क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः ॥०३-२७८-२७॥
नारद उवाच॥
स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव। नैषा चालयितुं शक्या धर्मादस्मात्कथञ्चन ॥०३-२७८-२८॥
नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः। प्रदानमेव तस्मान्मे रोचते दुहितुस्तव ॥०३-२७८-२९॥
राजोवाच॥
अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः। करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥०३-२७८-३०॥
नारद उवाच॥
अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव। साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः ॥०३-२७८-३१॥
मार्कण्डेय उवाच॥
एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः। राजापि दुहितुः सर्वं वैवाहिकमकारयत् ॥०३-२७८-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.