Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.288
कुन्त्युवाच॥
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया। यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम् ॥०३-२८८-१॥
एष चैव स्वभावो मे पूजयेयं द्विजानिति। तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम ॥०३-२८८-२॥
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि। यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति ॥०३-२८८-३॥
लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान्। आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम ॥०३-२८८-४॥
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः। वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते ॥०३-२८८-५॥
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ। यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः ॥०३-२८८-६॥
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते। तारणाय समर्थाः स्युर्विपरीते वधाय च ॥०३-२८८-७॥
साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्। न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात् ॥०३-२८८-८॥
अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः। भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा ॥०३-२८८-९॥
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्। यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति ॥०३-२८८-१०॥
राजोवाच॥
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया। मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि ॥०३-२८८-११॥
वैशम्पायन उवाच॥
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः। पृथां परिददौ तस्मै द्विजाय सुतवत्सलः ॥०३-२८८-१२॥
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता। अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि त्वया ॥०३-२८८-१३॥
द्विजातयो महाभागा वृद्धबालतपस्विषु। भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा ॥०३-२८८-१४॥
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः। यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम ॥०३-२८८-१५॥
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः। हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत् ॥०३-२८८-१६॥
तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत्। आहारादि च सर्वं तत्तथैव प्रत्यवेदयत् ॥०३-२८८-१७॥
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च। आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने ॥०३-२८८-१८॥
तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती। विधिवत्परिचारार्हं देववत्पर्यतोषयत् ॥०३-२८८-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.