Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.287
जनमेजय उवाच॥
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना। कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ॥०३-२८७-१॥
कुतश्च कवचं तस्य कुण्डले चैव सत्तम। एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥०३-२८७-२॥
वैशम्पायन उवाच॥
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः। यादृशे कुण्डले चैव कवचं चैव यादृशम् ॥०३-२८७-३॥
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः। तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ॥०३-२८७-४॥
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव। मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥०३-२८७-५॥
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः। भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ॥०३-२८७-६॥
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः। एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ॥०३-२८७-७॥
यथाकामं च गच्छेयमागच्छेयं तथैव च। शय्यासने च मे राजन्नापराध्येत कश्चन ॥०३-२८७-८॥
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः। एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ॥०३-२८७-९॥
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी। शीलवृत्तान्विता साध्वी नियता न च मानिनी ॥०३-२८७-१०॥
उपस्थास्यति सा त्वां वै पूजयानवमन्य च। तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥०३-२८७-११॥
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि। उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥०३-२८७-१२॥
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति। मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥०३-२८७-१३॥
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्। तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥०३-२८७-१४॥
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः। यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ॥०३-२८७-१५॥
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः। ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥०३-२८७-१६॥
अमानयन्हि मानार्हान्वातापिश्च महासुरः। निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ॥०३-२८७-१७॥
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम्। त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥०३-२८७-१८॥
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि। ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥०३-२८७-१९॥
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु। मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ॥०३-२८७-२०॥
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते। सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ॥०३-२८७-२१॥
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति। पृथे बालेति कृत्वा वै सुता चासि ममेति च ॥०३-२८७-२२॥
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता। दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ॥०३-२८७-२३॥
वसुदेवस्य भगिनी सुतानां प्रवरा मम। अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥०३-२८७-२४॥
तादृशे हि कुले जाता कुले चैव विवर्धिता। सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ॥०३-२८७-२५॥
दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः। बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥०३-२८७-२६॥
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम्। तेन तेनासि सम्पन्ना समुपेता च भामिनी ॥०३-२८७-२७॥
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि। आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥०३-२८७-२८॥
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्। कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ॥०३-२८७-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.