Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.289
वैशम्पायन उवाच॥
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्। तोषयामास शुद्धेन मनसा संशितव्रता ॥०३-२८९-१॥
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः। तत आयाति राजेन्द्र साये रात्रावथो पुनः ॥०३-२८९-२॥
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः। पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥०३-२८९-३॥
अन्नादिसमुदाचारः शय्यासनकृतस्तथा। दिवसे दिवसे तस्य वर्धते न तु हीयते ॥०३-२८९-४॥
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा। ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥०३-२८९-५॥
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः। दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ॥०३-२८९-६॥
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत्। शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥०३-२८९-७॥
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा। प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ॥०३-२८९-८॥
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः। अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ॥०३-२८९-९॥
तां प्रभाते च साये च पिता पप्रच्छ भारत। अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ॥०३-२८९-१०॥
तं सा परममित्येव प्रत्युवाच यशस्विनी। ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥०३-२८९-११॥
ततः संवत्सरे पूर्णे यदासौ जपतां वरः। नापश्यद्दुष्कृतं किञ्चित्पृथायाः सौहृदे रतः ॥०३-२८९-१२॥
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्। प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ॥०३-२८९-१३॥
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह। यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ॥०३-२८९-१४॥
कुन्त्युवाच॥
कृतानि मम सर्वाणि यस्या मे वेदवित्तम। त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥०३-२८९-१५॥
ब्राह्मण उवाच॥
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते। इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ॥०३-२८९-१६॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ॥०३-२८९-१७॥
अकामो वा सकामो वा न स नैष्यति ते वशम्। विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ॥०३-२८९-१८॥
वैशम्पायन उवाच॥
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता। तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥०३-२८९-१९॥
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः। मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥०३-२८९-२०॥
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह। उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ॥०३-२८९-२१॥
तव गेहे सुविहितः सदा सुप्रतिपूजितः। साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ॥०३-२८९-२२॥
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा। बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥०३-२८९-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.