03.290
वैशम्पायन उवाच॥
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये। चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥०३-२९०-१॥
अयं वै कीदृशस्तेन मम दत्तो महात्मना। मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ॥०३-२९०-२॥
एवं सञ्चिन्तयन्ती सा ददर्शर्तुं यदृच्छया। व्रीडिता साभवद्बाला कन्याभावे रजस्वला ॥०३-२९०-३॥
अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह। न ततर्प च रूपेण भानोः सन्ध्यागतस्य सा ॥०३-२९०-४॥
तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम्। आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥०३-२९०-५॥
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप। आह्वानमकरोत्साथ तस्य देवस्य भामिनी ॥०३-२९०-६॥
प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम्। आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥०३-२९०-७॥
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव। अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥०३-२९०-८॥
योगात्कृत्वा द्विधात्मानमाजगाम तताप च। आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ॥०३-२९०-९॥
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः। किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥०३-२९०-१०॥
कुन्त्युवाच॥
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः। कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥०३-२९०-११॥
सूर्य उवाच॥
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे। न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥०३-२९०-१२॥
तवाभिसन्धिः सुभगे सूर्यात्पुत्रो भवेदिति। वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥०३-२९०-१३॥
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि। उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने ॥०३-२९०-१४॥
अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते। शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ॥०३-२९०-१५॥
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः। पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥०३-२९०-१६॥
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव। शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥०३-२९०-१७॥
एते हि विबुधाः सर्वे पुरंदरमुखा दिवि। त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ॥०३-२९०-१८॥
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते। पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥०३-२९०-१९॥
वैशम्पायन उवाच॥
ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान्। प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव ॥०३-२९०-२०॥
सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता। गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः ॥०३-२९०-२१॥
पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने। नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥०३-२९०-२२॥
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो। बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ॥०३-२९०-२३॥
सूर्य उवाच॥
बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत। आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु ॥०३-२९०-२४॥
न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै। गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ॥ सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ॥०३-२९०-२५॥
सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम्। विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ॥०३-२९०-२६॥