Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.291
वैशम्पायन उवाच॥
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः। अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥०३-२९१-१॥
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्। भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥०३-२९१-२॥
अनागसः पितुः शापो ब्राह्मणस्य तथैव च। मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥०३-२९१-३॥
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि। नात्यासादयितव्यानि तेजांसि च तपांसि च ॥०३-२९१-४॥
साहमद्य भृशं भीता गृहीता च करे भृशम्। कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥०३-२९१-५॥
सैवं शापपरित्रस्ता बहु चिन्तयती तदा। मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ॥०३-२९१-६॥
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम। व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ॥०३-२९१-७॥
कुन्त्युवाच॥
पिता मे ध्रियते देव माता चान्ये च बान्धवाः। न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ॥०३-२९१-८॥
त्वया मे सङ्गमो देव यदि स्याद्विधिवर्जितः। मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ॥०३-२९१-९॥
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर। ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥०३-२९१-१०॥
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम्। त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥०३-२९१-११॥
सूर्य उवाच॥
न ते पिता न ते माता गुरवो वा शुचिस्मिते। प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ॥०३-२९१-१२॥
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि। तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ॥०३-२९१-१३॥
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि। अधर्मं कुत एवाहं चरेयं लोककाम्यया ॥०३-२९१-१४॥
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि। स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥०३-२९१-१५॥
सा मया सह सङ्गम्य पुनः कन्या भविष्यसि। पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ॥०३-२९१-१६॥
कुन्त्युवाच॥
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह। कुण्डली कवची शूरो महाबाहुर्महाबलः ॥०३-२९१-१७॥
सूर्य उवाच॥
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्। उभयं चामृतमयं तस्य भद्रे भविष्यति ॥०३-२९१-१८॥
कुन्त्युवाच॥
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्। मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥०३-२९१-१९॥
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया। त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ॥०३-२९१-२०॥
सूर्य उवाच॥
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि। तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ॥०३-२९१-२१॥
पृथोवाच॥
परमं भगवन्देव सङ्गमिष्ये त्वया सह। यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥०३-२९१-२२॥
वैशम्पायन उवाच॥
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः। स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥०३-२९१-२३॥
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा। पपाताथ च सा देवी शयने मूढचेतना ॥०३-२९१-२४॥
सूर्य उवाच॥
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि। सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ॥०३-२९१-२५॥
वैशम्पायन उवाच॥
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्। एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ॥०३-२९१-२६॥
इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा। तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव ॥०३-२९१-२७॥
तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविष्यात्मसंस्थां चकार। न चैवैनां दूषयामास भानुः; सञ्ज्ञां लेभे भूय एवाथ बाला ॥०३-२९१-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.