03.299
वैशम्पायन उवाच॥
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः। अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ॥ उपोपविश्य विद्वांसः सहिताः संशितव्रताः ॥०३-२९९-१॥
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः। तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ॥ अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ॥०३-२९९-२॥
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम्। छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ॥०३-२९९-३॥
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान्। अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ॥ तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥०३-२९९-४॥
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः। जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ॥ युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ॥०३-२९९-५॥
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह। समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ॥०३-२९९-६॥
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा। संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ॥०३-२९९-७॥
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह। अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ॥०३-२९९-८॥
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः। नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ॥०३-२९९-९॥
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा। तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ॥०३-२९९-१०॥
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा। छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥०३-२९९-११॥
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता। गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥०३-२९९-१२॥
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा। बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥०३-२९९-१३॥
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा। यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥०३-२९९-१४॥
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे। वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥०३-२९९-१५॥
हुताशनेन यच्चापः प्रविश्य छन्नमासता। विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ॥०३-२९९-१६॥
एवं विवस्वता तात छन्नेनोत्तमतेजसा। निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ॥०३-२९९-१७॥
विष्णुना वसता चापि गृहे दशरथस्य वै। दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥०३-२९९-१८॥
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह। अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ॥०३-२९९-१९॥
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः। शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ॥०३-२९९-२०॥
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः। राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन् ॥०३-२९९-२१॥
अवेक्षया महाराज तव गाण्डीवधन्वना। धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम् ॥०३-२९९-२२॥
सहदेवो मया नित्यं नकुलश्च निवारितौ। शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥०३-२९९-२३॥
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान्। भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ॥०३-२९९-२४॥
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः। प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ॥०३-२९९-२५॥
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा। आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥०३-२९९-२६॥
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः। उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥०३-२९९-२७॥
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः। श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥०३-२९९-२८॥
पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः। सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन् ॥०३-२९९-२९॥