03.298
वैशम्पायन उवाच॥
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः। क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥०३-२९८-१॥
युधिष्ठिर उवाच॥
सरस्येकेन पादेन तिष्ठन्तमपराजितम्। पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥०३-२९८-२॥
वसूनां वा भवानेको रुद्राणामथ वा भवान्। अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥०३-२९८-३॥
मम हि भ्रातर इमे सहस्रशतयोधिनः। न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥०३-२९८-४॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये। स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥०३-२९८-५॥
यक्ष उवाच॥
अहं ते जनकस्तात धर्मो मृदुपराक्रम। त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥०३-२९८-६॥
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्। दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥०३-२९८-७॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः। द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥०३-२९८-८॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता। द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते साम्परायिके ॥०३-२९८-९॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः। आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥०३-२९८-१०॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ। ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥०३-२९८-११॥
युधिष्ठिर उवाच॥
अरणीसहितं यस्य मृग आदाय गच्छति। तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥०३-२९८-१२॥
धर्म उवाच॥
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया। मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥०३-२९८-१३॥
वैशम्पायन उवाच॥
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। अन्यं वरय भद्रं ते वरं त्वममरोपम ॥०३-२९८-१४॥
युधिष्ठिर उवाच॥
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्। तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥०३-२९८-१५॥
वैशम्पायन उवाच॥
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥०३-२९८-१६॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्। न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥०३-२९८-१७॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः। विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥०३-२९८-१८॥
यद्वः सङ्कल्पितं रूपं मनसा यस्य यादृशम्। तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥०३-२९८-१९॥
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत। जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥०३-२९८-२०॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्। त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ॥०३-२९८-२१॥
युधिष्ठिर उवाच॥
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः। यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥०३-२९८-२२॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो। दाने तपसि सत्ये च मनो मे सततं भवेत् ॥०३-२९८-२३॥
धर्म उवाच॥
उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव। भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥०३-२९८-२४॥
वैशम्पायन उवाच॥
इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः। समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥०३-२९८-२५॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः। आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥०३-२९८-२६॥
इदं समुत्थानसमागमं मह; त्पितुश्च पुत्रस्य च कीर्तिवर्धनम्। पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत् ॥०३-२९८-२७॥
न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने। कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम् ॥०३-२९८-२८॥