04.001
वैराटपर्व
जनमेजय उवाच॥
कथं विराटनगरे मम पूर्वपितामहाः। अज्ञातवासमुषिता दुर्योधनभयार्दिताः ॥०४-१-१॥
वैशम्पायन उवाच॥
तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः। गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ॥०४-१-२॥
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः। अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ॥०४-१-३॥
ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः। संनिवर्त्यानुजान्सर्वानिति होवाच भारत ॥०४-१-४॥
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्। त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रः परमदुर्वसः ॥०४-१-५॥
स साधु कौन्तेय इतो वासमर्जुन रोचय। यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः ॥०४-१-६॥
अर्जुन उवाच॥
तस्यैव वरदानेन धर्मस्य मनुजाधिप। अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥०४-१-७॥
किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्। रमणीयानि गुप्तानि तेषां किञ्चित्स्म रोचय ॥०४-१-८॥
सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून्। पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ॥ दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगन्धराः ॥०४-१-९॥
एतेषां कतमो राजन्निवासस्तव रोचते। वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम् ॥०४-१-१०॥
युधिष्ठिर उवाच॥
एवमेतन्महाबाहो यथा स भगवान्प्रभुः। अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा ॥०४-१-११॥
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्। संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम् ॥०४-१-१२॥
मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान्। धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः ॥०४-१-१३॥
विराटनगरे तात संवत्सरमिमं वयम्। कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत ॥०४-१-१४॥
यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम्। कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः ॥०४-१-१५॥
अर्जुन उवाच॥
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि। विराटनृपतेः साधो रंस्यसे केन कर्मणा ॥०४-१-१६॥
मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः। राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव ॥०४-१-१७॥
न दुःखमुचितं किञ्चिद्राजन्वेद यथा जनः। स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥०४-१-१८॥
युधिष्ठिर उवाच॥
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः। विराटमनुसम्प्राप्य राजानं पुरुषर्षभम् ॥०४-१-१९॥
सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः। कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता ॥०४-१-२०॥
वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह। कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान् ॥०४-१-२१॥
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा। इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥०४-१-२२॥
इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा। वृकोदर विराटे त्वं रंस्यसे केन कर्मणा ॥०४-१-२३॥