Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.002
भीम उवाच॥
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः। उपस्थास्यामि राजानं विराटमिति मे मतिः ॥०४-२-१॥
सूपानस्य करिष्यामि कुशलोऽस्मि महानसे। कृतपूर्वाणि यैरस्य व्यञ्जनानि सुशिक्षितैः ॥ तानप्यभिभविष्यामि प्रीतिं सञ्जनयन्नहम् ॥०४-२-२॥
आहरिष्यामि दारूणां निचयान्महतोऽपि च। तत्प्रेक्ष्य विपुलं कर्म राजा प्रीतो भविष्यति ॥०४-२-३॥
द्विपा वा बलिनो राजन्वृषभा वा महाबलाः। विनिग्राह्या यदि मया निग्रहीष्यामि तानपि ॥०४-२-४॥
ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः। तानहं निहनिष्यामि प्रीतिं तस्य विवर्धयन् ॥०४-२-५॥
न त्वेतान्युध्यमानान्वै हनिष्यामि कथञ्चन। तथैतान्पातयिष्यामि यथा यास्यन्ति न क्षयम् ॥०४-२-६॥
आरालिको गोविकर्ता सूपकर्ता नियोधकः। आसं युधिष्ठिरस्याहमिति वक्ष्यामि पृच्छतः ॥०४-२-७॥
आत्मानमात्मना रक्षंश्चरिष्यामि विशां पते। इत्येतत्प्रतिजानामि विहरिष्याम्यहं यथा ॥०४-२-८॥
युधिष्ठिर उवाच॥
यमग्निर्ब्राह्मणो भूत्वा समागच्छन्नृणां वरम्। दिधक्षुः खाण्डवं दावं दाशार्हसहितं पुरा ॥०४-२-९॥
महाबलं महाबाहुमजितं कुरुनन्दनम्। सोऽयं किं कर्म कौन्तेयः करिष्यति धनञ्जयः ॥०४-२-१०॥
योऽयमासाद्य तं दावं तर्पयामास पावकम्। विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान् ॥ श्रेष्ठः प्रतियुधां नाम सोऽर्जुनः किं करिष्यति ॥०४-२-११॥
सूर्यः प्रतपतां श्रेष्ठो द्विपदां ब्राह्मणो वरः। आशीविषश्च सर्पाणामग्निस्तेजस्विनां वरः ॥०४-२-१२॥
आयुधानां वरो वर्जः ककुद्मी च गवां वरः। ह्रदानामुदधिः श्रेष्ठः पर्जन्यो वर्षतां वरः ॥०४-२-१३॥
धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो वरः। पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा ॥०४-२-१४॥
यथैतानि विशिष्टानि जात्यां जात्यां वृकोदर। एवं युवा गुडाकेशः श्रेष्ठः सर्वधनुष्मताम् ॥०४-२-१५॥
सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत। गाण्डीवधन्वा श्वेताश्वो बीभत्सुः किं करिष्यति ॥०४-२-१६॥
उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि। दिव्यान्यस्त्राण्यवाप्तानि देवरूपेण भास्वता ॥०४-२-१७॥
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम्। यस्य बाहू समौ दीर्घौ ज्याघातकठिनत्वचौ ॥ दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥०४-२-१८॥
हिमवानिव शैलानां समुद्रः सरितामिव। त्रिदशानां यथा शक्रो वसूनामिव हव्यवाट् ॥०४-२-१९॥
मृगाणामिव शार्दूलो गरुडः पततामिव। वरः संनह्यमानानामर्जुनः किं करिष्यति ॥०४-२-२०॥
अर्जुन उवाच॥
प्रतिज्ञां षण्ढकोऽस्मीति करिष्यामि महीपते। ज्याघातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ ॥०४-२-२१॥
कर्णयोः प्रतिमुच्याहं कुण्डले ज्वलनोपमे। वेणीकृतशिरा राजन्नाम्ना चैव बृहन्नडा ॥०४-२-२२॥
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः। रमयिष्ये महीपालमन्यांश्चान्तःपुरे जनान् ॥०४-२-२३॥
गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा। शिक्षयिष्याम्यहं राजन्विराटभवने स्त्रियः ॥०४-२-२४॥
प्रजानां समुदाचारं बहु कर्मकृतं वदन्। छादयिष्यामि कौन्तेय माययात्मानमात्मना ॥०४-२-२५॥
युधिष्ठिरस्य गेहेऽस्मि द्रौपद्याः परिचारिका। उषितास्मीति वक्ष्यामि पृष्टो राज्ञा च भारत ॥०४-२-२६॥
एतेन विधिना छन्नः कृतकेन यथा नलः। विहरिष्यामि राजेन्द्र विराटभवने सुखम् ॥०४-२-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.