Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.015
कीचक उवाच॥
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम। स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम् ॥०४-१५-१॥
सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके। आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च ॥०४-१५-२॥
अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम्। एहि तत्र मया सार्धं पिबस्व मधुमाधवीम् ॥०४-१५-३॥
द्रौपद्युवाच॥
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्। पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत् ॥०४-१५-४॥
कीचक उवाच॥
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम्। वैशम्पायन उवाच॥
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत्। सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम् ॥ सभां शरणमाधावद्यत्र राजा युधिष्ठिरः ॥०४-१५-६॥
तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्। अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत् ॥०४-१५-७॥
ततो योऽसौ तदार्केण राक्षसः संनियोजितः। स कीचकमपोवाह वातवेगेन भारत ॥०४-१५-८॥
स पपात ततो भूमौ रक्षोबलसमाहतः। विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः ॥०४-१५-९॥
तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ। अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम् ॥०४-१५-१०॥
तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः। दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः ॥०४-१५-११॥
अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट्। प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत् ॥०४-१५-१२॥
सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्। अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः ॥०४-१५-१३॥
आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम्। दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा ॥०४-१५-१४॥
द्रौपद्युवाच॥
येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन्। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥०४-१५-१५॥
ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥०४-१५-१६॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥०४-१५-१७॥
ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥०४-१५-१८॥
सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये। तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत् ॥०४-१५-१९॥
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्। चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः ॥०४-१५-२०॥
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्। मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः ॥०४-१५-२१॥
क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते। न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना ॥०४-१५-२२॥
मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम्। यः पश्यन्मां मर्षयति वध्यमानामनागसम् ॥०४-१५-२३॥
न राजन्राजवत्किञ्चित्समाचरसि कीचके। दस्यूनामिव धर्मस्ते न हि संसदि शोभते ॥०४-१५-२४॥
न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन। सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥०४-१५-२५॥
नोपालभे त्वां नृपते विराट जनसंसदि। नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके ॥ सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम् ॥०४-१५-२६॥
विराट उवाच॥
परोक्षं नाभिजानामि विग्रहं युवयोरहम्। अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम ॥०४-१५-२७॥
वैशम्पायन उवाच॥
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्। साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन् ॥०४-१५-२८॥
सभ्या ऊचुः॥
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा। परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥०४-१५-२९॥
वैशम्पायन उवाच॥
एवं सम्पूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः। युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत् ॥०४-१५-३०॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्। गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम् ॥०४-१५-३१॥
भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः। शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥०४-१५-३२॥
मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव। तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥०४-१५-३३॥
अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि। विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि ॥ गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् ॥०४-१५-३४॥
द्रौपद्युवाच॥
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी। तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता ॥०४-१५-३५॥
वैशम्पायन उवाच॥
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम्। केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा ॥०४-१५-३६॥
शुशुभे वदनं तस्या रुदन्त्या विरतं तदा। मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम् ॥०४-१५-३७॥
सुदेष्णोवाच॥
कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने। कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम् ॥०४-१५-३८॥
द्रौपद्युवाच॥
कीचको मावधीत्तत्र सुराहारीं गतां तव। सभायां पश्यतो राज्ञो यथैव विजने तथा ॥०४-१५-३९॥
सुदेष्णोवाच॥
घातयामि सुकेशान्ते कीचकं यदि मन्यसे। योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते ॥०४-१५-४०॥
द्रौपद्युवाच॥
अन्ये वै तं वधिष्यन्ति येषामागः करोति सः। मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति ॥०४-१५-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.