04.016
वैशम्पायन उवाच॥
सा हता सूतपुत्रेण राजपुत्री समज्वलत्। वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी ॥ जगामावासमेवाथ तदा सा द्रुपदात्मजा ॥०४-१६-१॥
कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा। गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥०४-१६-२॥
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्। किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम ॥०४-१६-३॥
इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्। नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम् ॥०४-१६-४॥
तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्। प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ दुःखेन महता युक्ता मानसेन मनस्विनी ॥०४-१६-५॥
सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता। सर्वश्वेतेव माहेयी वने जाता त्रिहायनी ॥ उपातिष्ठत पाञ्चाली वाशितेव महागजम् ॥०४-१६-६॥
सा लतेव महाशालं फुल्लं गोमतितीरजम्। बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता ॥०४-१६-७॥
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव ॥०४-१६-७॥
वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता। अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता ॥०४-१६-८॥
उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः। नामृतस्य हि पापीयान्भार्यामालभ्य जीवति ॥०४-१६-९॥
तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि। तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे ॥०४-१६-१०॥
स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः। उपातिष्ठत मेघाभः पर्यङ्के सोपसङ्ग्रहे ॥०४-१६-११॥
अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्। केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम् ॥०४-१६-१२॥
न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे। आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा ॥०४-१६-१३॥
सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्। यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम् ॥०४-१६-१४॥
अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु। अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः ॥०४-१६-१५॥
शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्। गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते ॥०४-१६-१६॥