Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.014
वैशम्पायन उवाच॥
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्। अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥०४-१४-१॥
यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम्। तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ॥०४-१४-२॥
तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा। विराटमहिषी देवी कृपां चक्रे मनस्विनी ॥०४-१४-३॥
स्वमर्थमभिसन्धाय तस्यार्थमनुचिन्त्य च। उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत् ॥०४-१४-४॥
पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय। तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम् ॥०४-१४-५॥
तत्र सम्प्रेषितामेनां विजने निरवग्रहाम्। सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि ॥०४-१४-६॥
कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा। सुरामाहारयामास राजार्हां सुपरिस्रुताम् ॥०४-१४-७॥
आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान्। कारयामास कुशलैरन्नपानं सुशोभनम् ॥०४-१४-८॥
तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता। सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम् ॥०४-१४-९॥
सुदेष्णोवाच॥
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम्। पानमानय कल्याणि पिपासा मां प्रबाधते ॥०४-१४-१०॥
द्रौपद्युवाच॥
न गच्छेयमहं तस्य राजपुत्रि निवेशनम्। त्वमेव राज्ञि जानासि यथा स निरपत्रपः ॥०४-१४-११॥
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि। कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ॥०४-१४-१२॥
त्वं चैव देवि जानासि यथा स समयः कृतः। प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि ॥०४-१४-१३॥
कीचकश्च सुकेशान्ते मूढो मदनदर्पितः। सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ॥०४-१४-१४॥
सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः। अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते ॥०४-१४-१५॥
सुदेष्णोवाच॥
नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मया। वैशम्पायन उवाच॥
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम्। सा शङ्कमाना रुदती दैवं शरणमीयुषी ॥०४-१४-१७॥
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ॥०४-१४-१७॥
द्रौपद्युवाच॥
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन। तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ॥०४-१४-१८॥
वैशम्पायन उवाच॥
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः। स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान् ॥०४-१४-१९॥
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्। तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ॥०४-१४-२०॥
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम्। उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः ॥०४-१४-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.