05.025
युधिष्ठिर उवाच॥
समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः। यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र ॥५-२५-१॥
सञ्जय उवाच॥
अजातशत्रुं च वृकोदरं च; धनञ्जयं माद्रवतीसुतौ च। आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम् ॥५-२५-२॥
पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम्। सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥५-२५-३॥
शमं राजा धृतराष्ट्रोऽभिनन्द; न्नयोजयत्त्वरमाणो रथं मे। सभ्रातृपुत्रस्वजनस्य राज्ञ; स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥५-२५-४॥
सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन। जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः ॥५-२५-५॥
न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः। उद्भासते ह्यञ्जनबिन्दुवत्त; च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः ॥५-२५-६॥
सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः। कस्तत्कुर्याज्जातु कर्म प्रजान; न्पराजयो यत्र समो जयश्च ॥५-२५-७॥
ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च। उपक्रुष्टं जीवितं सन्त्यजेयु; स्ततः कुरूणां नियतो वै भवः स्यात् ॥५-२५-८॥
ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य। समं वस्तज्जीवितं मृत्युना स्या; द्यज्जीवध्वं ज्ञातिवधे न साधु ॥५-२५-९॥
को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान्। ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान् ॥५-२५-१०॥
को वा कुरून्द्रोणभीष्माभिगुप्ता; नश्वत्थाम्ना शल्यकृपादिभिश्च। रणे प्रसोढुं विषहेत राज; न्राधेयगुप्तान्सह भूमिपालैः ॥५-२५-११॥
महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः। सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किञ्चित् ॥५-२५-१२॥
कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः। सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम् ॥५-२५-१३॥
कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्। न ह्येव ते वचनं वासुदेवो; धनञ्जयो वा जातु किञ्चिन्न कुर्यात् ॥५-२५-१४॥
प्राणानादौ याच्यमानः कुतोऽन्य; देतद्विद्वन्साधनार्थं ब्रवीमि। एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥५-२५-१५॥