Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.024
सञ्जय उवाच॥
यथार्हसे पाण्डव तत्तथैव; कुरून्कुरुश्रेष्ठ जनं च पृच्छसि। अनामयास्तात मनस्विनस्ते; कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥५-२४-१॥
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे; सन्त्येव पापाः पाण्डव तस्य विद्धि। दद्याद्रिपोश्चापि हि धार्तराष्ट्रः; कुतो दायाँल्लोपयेद्ब्राह्मणानाम् ॥५-२४-२॥
यद्युष्माकं वर्ततेऽसौ न धर्म्य; मद्रुग्धेषु द्रुग्धवत्तन्न साधु। मित्रध्रुक्स्याद्धृतराष्ट्रः सपुत्रो; युष्मान्द्विषन्साधुवृत्तानसाधुः ॥५-२४-३॥
न चानुजानाति भृशं च तप्यते; शोचत्यन्तः स्थविरोऽजातशत्रो। शृणोति हि ब्राह्मणानां समेत्य; मित्रद्रोहः पातकेभ्यो गरीयान् ॥५-२४-४॥
स्मरन्ति तुभ्यं नरदेव सङ्गमे; युद्धे च जिष्णोश्च युधां प्रणेतुः। समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं स्मरन्ति ॥५-२४-५॥
माद्रीसुतौ चापि रणाजिमध्ये; सर्वा दिशः सम्पतन्तौ स्मरन्ति। सेनां वर्षन्तौ शरवर्षैरजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ॥५-२४-६॥
न त्वेव मन्ये पुरुषस्य राज; न्ननागतं ज्ञायते यद्भविष्यम्। त्वं चेदिमं सर्वधर्मोपपन्नः; प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् ॥५-२४-७॥
त्वमेवैतत्सर्वमतश्च भूयः; समीकुर्याः प्रज्ञयाजातशत्रो। न कामार्थं सन्त्यजेयुर्हि धर्मं; पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ॥५-२४-८॥
त्वमेवैतत्प्रज्ञयाजातशत्रो; शमं कुर्या येन शर्माप्नुयुस्ते। धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च; ये चाप्यन्ये पार्थिवाः संनिविष्टाः ॥५-२४-९॥
यन्माब्रवीद्धृतराष्ट्रो निशाया; मजातशत्रो वचनं पिता ते। सहामात्यः सहपुत्रश्च राज; न्समेत्य तां वाचमिमां निबोध ॥५-२४-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.