Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.042
वैशम्पायन उवाच॥
ततो राजा धृतराष्ट्रो मनीषी; सम्पूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन् ॥५-४२-१॥
धृतराष्ट्र उवाच॥
सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य; ममृत्यवे तत्कतरन्नु सत्यम् ॥५-४२-२॥
सनत्सुजात उवाच॥
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥५-४२-३॥
उभे सत्ये क्षत्रियाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि; सदाप्रमादममृतत्वं ब्रवीमि ॥५-४२-४॥
प्रमादाद्वै असुराः पराभव; न्नप्रमादाद्ब्रह्मभूता भवन्ति। न वै मृत्युर्व्याघ्र इवात्ति जन्तू; न ह्यस्य रूपमुपलभ्यते ह ॥५-४२-५॥
यमं त्वेके मृत्युमतोऽन्यमाहु; रात्मावसन्नममृतं ब्रह्मचर्यम्। पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् ॥५-४२-६॥
आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युः। ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति ॥५-४२-७॥
ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति। कर्मोदये कर्मफलानुरागा; स्तत्रानु यान्ति न तरन्ति मृत्युम् ॥५-४२-८॥
योऽभिध्यायन्नुत्पतिष्णून्निहन्या; दनादरेणाप्रतिबुध्यमानः। स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् ॥५-४२-९॥
कामानुसारी पुरुषः कामाननु विनश्यति। कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥५-४२-१०॥
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते। गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥५-४२-११॥
अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात्। एते बालान्मृत्यवे प्रापयन्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् ॥५-४२-१२॥
अमन्यमानः क्षत्रिय किञ्चिदन्य; न्नाधीयते तार्ण इवास्य व्याघ्रः। क्रोधाल्लोभान्मोहमयान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः ॥५-४२-१३॥
एवं मृत्युं जायमानं विदित्वा; ज्ञाने तिष्ठन्न बिभेतीह मृत्योः। विनश्यते विषये तस्य मृत्यु; र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥५-४२-१४॥
धृतराष्ट्र उवाच॥
येऽस्मिन्धर्मान्नाचरन्तीह के चि; त्तथा धर्मान्केचिदिहाचरन्ति। धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् ॥५-४२-१५॥
सनत्सुजात उवाच॥
उभयमेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च। धर्मेणाधर्मं प्रणुदतीह विद्वा; न्धर्मो बलीयानिति तस्य विद्धि ॥५-४२-१६॥
धृतराष्ट्र उवाच॥
यानिमानाहुः स्वस्य धर्मस्य लोका; न्द्विजातीनां पुण्यकृतां सनातनान्। तेषां परिक्रमान्कथयन्तस्ततोऽन्या; न्नैतद्विद्वन्नैव कृतं च कर्म ॥५-४२-१७॥
सनत्सुजात उवाच॥
येषां बले न विस्पर्धा बले बलवतामिव। ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥५-४२-१८॥
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम्। अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् ॥५-४२-१९॥
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम्। अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥५-४२-२०॥
यो वाकथयमानस्य आत्मानं नानुसञ्ज्वरेत्। ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥५-४२-२१॥
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये। एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥५-४२-२२॥
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः। ज्ञातीनां तु वसन्मध्ये नैव विद्येत किञ्चन ॥५-४२-२३॥
को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति। तस्माद्धि किञ्चित्क्षत्रिय ब्रह्मावसति पश्यति ॥५-४२-२४॥
अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः। शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥५-४२-२५॥
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः। ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥५-४२-२६॥
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन। न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥५-४२-२७॥
यमप्रयतमानं तु मानयन्ति स मानितः। न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् ॥५-४२-२८॥
विद्वांसो मानयन्तीह इति मन्येत मानितः। अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ॥ न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥५-४२-२९॥
न वै मानं च मौनं च सहितौ चरतः सदा। अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥५-४२-३०॥
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी। ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥५-४२-३१॥
द्वाराणि तस्या हि वदन्ति सन्तो; बहुप्रकाराणि दुरावराणि। सत्यार्जवे ह्रीर्दमशौचविद्याः; षण्मानमोहप्रतिबाधनानि ॥५-४२-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.