05.041
धृतराष्ट्र उवाच॥
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे ॥५-४१-१॥
विदुर उवाच॥
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥५-४१-२॥
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥५-४१-३॥
धृतराष्ट्र उवाच॥
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥५-४१-४॥
विदुर उवाच॥
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् ॥५-४१-५॥
ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत्। न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥५-४१-६॥
धृतराष्ट्र उवाच॥
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्। कथमेतेन देहेन स्यादिहैव समागमः ॥५-४१-७॥
वैशम्पायन उवाच॥
चिन्तयामास विदुरस्तमृषिं संशितव्रतम्। स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥५-४१-८॥
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा। सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥५-४१-९॥
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे। यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि ॥५-४१-१०॥
यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् ॥५-४१-१०॥
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ। विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ ॥५-४१-११॥
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥५-४१-११॥