Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.070
वैशम्पायन उवाच॥
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः। अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ॥५-७०-१॥
अयं स कालः सम्प्राप्तो मित्राणां मे जनार्दन। न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥५-७०-२॥
त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम्। धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे ॥५-७०-३॥
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम। तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥५-७०-४॥
भगवानुवाच॥
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम्। करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥५-७०-५॥
युधिष्ठिर उवाच॥
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम्। एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ॥५-७०-६॥
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः। यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥५-७०-७॥
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति। लुब्धः पापेन मनसा चरन्नसममात्मनः ॥५-७०-८॥
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम्। छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥५-७०-९॥
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो। नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥५-७०-१०॥
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति। पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ॥५-७०-११॥
सुयोधनमते तिष्ठन्राजास्मासु जनार्दन। मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः ॥५-७०-१२॥
इतो दुःखतरं किं नु यत्राहं मातरं ततः। संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥५-७०-१३॥
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन। भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥५-७०-१४॥
कुशस्थलं वृकस्थलमासन्दी वारणावतम्। अवसानं च गोविन्द किञ्चिदेवात्र पञ्चमम् ॥५-७०-१५॥
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा। वसेम सहिता येषु मा च नो भरता नशन् ॥५-७०-१६॥
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते। स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ॥५-७०-१७॥
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः। लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥५-७०-१८॥
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम्। श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ॥५-७०-१९॥
अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः। अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ॥५-७०-२०॥
एतच्च मरणं तात यदस्मात्पतितादिव। ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ॥५-७०-२१॥
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत्। यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥५-७०-२२॥
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम्। जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥५-७०-२३॥
ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः। ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥५-७०-२४॥
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः। ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥५-७०-२५॥
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम्। दास्यमेके निगच्छन्ति परेषामर्थहेतुना ॥५-७०-२६॥
आपदेवास्य मरणात्पुरुषस्य गरीयसी। श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥५-७०-२७॥
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत्। समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥५-७०-२८॥
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः। यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥५-७०-२९॥
स तदात्मापराधेन सम्प्राप्तो व्यसनं महत्। सेन्द्रान्गर्हयते देवान्नात्मानं च कथञ्चन ॥५-७०-३०॥
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम्। सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ॥५-७०-३१॥
तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति। स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥५-७०-३२॥
पापकर्मात्ययायैव सङ्करं तेन पुष्यति। सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ॥५-७०-३३॥
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति। तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ॥५-७०-३४॥
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते। शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥५-७०-३५॥
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते। श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥५-७०-३६॥
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा। नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ॥५-७०-३७॥
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान्। नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥५-७०-३८॥
ह्रीमानवति देवांश्च पितॄनात्मानमेव च। तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥५-७०-३९॥
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन। यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥५-७०-४०॥
ते वयं न श्रियं हातुमलं न्यायेन केनचित्। अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥५-७०-४१॥
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव। प्रशान्ताः समभूताश्च श्रियं तानश्नुवीमहि ॥५-७०-४२॥
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया। यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ॥५-७०-४३॥
ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः। तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ॥५-७०-४४॥
ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः। तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥५-७०-४५॥
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः। स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥५-७०-४६॥
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः। वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥५-७०-४७॥
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति। श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥५-७०-४८॥
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे। बलं तु नीतिमात्राय हठे जयपराजयौ ॥५-७०-४९॥
नात्मच्छन्देन भूतानां जीवितं मरणं तथा। नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ॥५-७०-५०॥
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत। शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥५-७०-५१॥
जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः। तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥५-७०-५२॥
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते। हतस्य च हृषीकेश समौ जयपराजयौ ॥५-७०-५३॥
पराजयश्च मरणान्मन्ये नैव विशिष्यते। यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥५-७०-५४॥
अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः। तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः ॥ निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ॥५-७०-५५॥
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः। त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ॥५-७०-५६॥
हत्वाप्यनुशयो नित्यं परानपि जनार्दन। अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ॥५-७०-५७॥
शेषो हि बलमासाद्य न शेषमवशेषयेत्। सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ॥५-७०-५८॥
जयो वैरं प्रसृजति दुःखमास्ते पराजितः। सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ॥५-७०-५९॥
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा। अनिर्वृतेन मनसा ससर्प इव वेश्मनि ॥५-७०-६०॥
उत्सादयति यः सर्वं यशसा स वियुज्यते। अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ॥५-७०-६१॥
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि। आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले ॥५-७०-६२॥
न चापि वैरं वैरेण केशव व्युपशाम्यति। हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते ॥५-७०-६३॥
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः। अन्तरं लिप्समानानामयं दोषो निरन्तरः ॥५-७०-६४॥
पौरुषेयो हि बलवानाधिर्हृदयबाधनः। तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ॥५-७०-६५॥
अथ वा मूलघातेन द्विषतां मधुसूदन। फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥५-७०-६६॥
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः। संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥५-७०-६७॥
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम्। अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥५-७०-६८॥
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम्। सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् ॥५-७०-६९॥
प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते। तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ॥५-७०-७०॥
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम्। दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥५-७०-७१॥
तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम्। एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥५-७०-७२॥
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम्। अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥५-७०-७३॥
पिता राजा च वृद्धश्च सर्वथा मानमर्हति। तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥५-७०-७४॥
पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव। स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥५-७०-७५॥
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम्। कथमर्थाच्च धर्माच्च न हीयेमहि माधव ॥५-७०-७६॥
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन। उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥५-७०-७७॥
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम्। को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥५-७०-७८॥
वैशम्पायन उवाच॥
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः। उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥५-७०-७९॥
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन्। पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥५-७०-८०॥
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान्। पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥५-७०-८१॥
युधिष्ठिर उवाच॥
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति। सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥५-७०-८२॥
समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम्। तेषां मध्यावतरणं तव कृष्ण न रोचये ॥५-७०-८३॥
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम्। न च सर्वामरैश्वर्यं तव रोधेन माधव ॥५-७०-८४॥
भगवानुवाच॥
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम्। अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ॥५-७०-८५॥
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः। क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥५-७०-८६॥
अथ चेत्ते प्रवर्तेरन्मयि किञ्चिदसाम्प्रतम्। निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥५-७०-८७॥
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम्। अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ॥५-७०-८८॥
युधिष्ठिर उवाच॥
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान्। कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥५-७०-८९॥
विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो। यथा सर्वे सुमनसः सह स्यामः सुचेतसः ॥५-७०-९०॥
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः। सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ॥५-७०-९१॥
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम्। यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥५-७०-९२॥
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः। तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥५-७०-९३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.