05.071
भगवानुवाच॥
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया। सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥५-७१-१॥
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः। यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥५-७१-२॥
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते। आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ॥५-७१-३॥
जयो वधो वा सङ्ग्रामे धात्रा दिष्टः सनातनः। स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥५-७१-४॥
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर। विक्रमस्व महाबाहो जहि शत्रूनरिंदम ॥५-७१-५॥
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः। कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ॥५-७१-६॥
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते। बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥५-७१-७॥
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि। तावदेते हरिष्यन्ति तव राज्यमरिंदम ॥५-७१-८॥
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्। अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ॥५-७१-९॥
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि। नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ॥५-७१-१०॥
पितामहस्य द्रोणस्य विदुरस्य च धीमतः। पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ॥५-७१-११॥
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम्। यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा । न चापत्रपते पापो नृशंसस्तेन कर्मणा ॥५-७१-१२॥
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः। वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥५-७१-१३॥
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम्। श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ॥५-७१-१४॥
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम्। नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥५-७१-१५॥
कालेन महता चैषां भविष्यति पराभवः। प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः ॥५-७१-१६॥
एताश्चान्याश्च परुषा वाचः स समुदीरयन्। श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥५-७१-१७॥
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्। अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ॥५-७१-१८॥
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह। सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥५-७१-१९॥
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन। महागुणो वधो राजन्न तु निन्दा कुजीविका ॥५-७१-२०॥
तदैव निहतो राजन्यदैव निरपत्रपः। निन्दितश्च महाराज पृथिव्यां सर्वराजसु ॥५-७१-२१॥
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम्। प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥५-७१-२२॥
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः। जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥५-७१-२३॥
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ। यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥५-७१-२४॥
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्। येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥५-७१-२५॥
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान्। तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥५-७१-२६॥
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्। निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥५-७१-२७॥
त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति। तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥५-७१-२८॥
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि। वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे ॥५-७१-२९॥
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे। कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥५-७१-३०॥
तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते। हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥५-७१-३१॥
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन्। यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥५-७१-३२॥
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम्। निशाम्य विनिवर्तिष्ये जयाय तव भारत ॥५-७१-३३॥
सर्वथा युद्धमेवाहमाशंसामि परैः सह। निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥५-७१-३४॥
मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु। घोराणि रूपाणि तथैव चाग्नि; र्वर्णान्बहून्पुष्यति घोररूपान् । नुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात् ॥५-७१-३५॥
शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा। योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः । साङ्ग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र ॥५-७१-३६॥
दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथञ्चित्। यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् ॥५-७१-३७॥