05.072
भीमसेन उवाच॥
यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन। तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ॥५-७२-१॥
अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः। नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ॥५-७२-२॥
प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः। ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥५-७२-३॥
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः। दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥५-७२-४॥
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्। तादृशेन शमं कृष्ण मन्ये परमदुष्करम् ॥५-७२-५॥
सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः। प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ॥५-७२-६॥
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः। स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः ॥५-७२-७॥
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव। यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥५-७२-८॥
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्। इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥५-७२-९॥
दुर्योधनस्य क्रोधेन भारता मधुसूदन। धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥५-७२-१०॥
अष्टादशेमे राजानः प्रख्याता मधुसूदन। ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ॥५-७२-११॥
असुराणां समृद्धानां ज्वलतामिव तेजसा। पर्यायकाले धर्मस्य प्राप्ते बलिरजायत ॥५-७२-१२॥
हैहयानामुदावर्तो नीपानां जनमेजयः। बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥५-७२-१३॥
अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः। अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥५-७२-१४॥
हयग्रीवो विदेहानां वरप्रश्च महौजसाम्। बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः ॥५-७२-१५॥
सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः। धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः ॥५-७२-१६॥
शमश्च नन्दिवेगानामित्येते कुलपांसनाः। युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः ॥५-७२-१७॥
अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः। दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥५-७२-१८॥
तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम्। कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् ॥५-७२-१९॥
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः। नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् ॥५-७२-२०॥
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह। वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥५-७२-२१॥
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः। भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥५-७२-२२॥
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति। अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने ॥५-७२-२३॥