Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.073
वैशम्पायन उवाच॥
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव। अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ॥५-७३-१॥
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके। मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥५-७३-२॥
सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम्। उवाच भीममासीनं कृपयाभिपरिप्लुतम् ॥५-७३-३॥
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि। वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ॥५-७३-४॥
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप। घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥५-७३-५॥
निःश्वसन्नग्निवर्णेन सन्तप्तः स्वेन मन्युना। अप्रशान्तमना भीम सधूम इव पावकः ॥५-७३-६॥
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः। अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥५-७३-७॥
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव। निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥५-७३-८॥
नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव। नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ॥५-७३-९॥
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव। जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ॥५-७३-१०॥
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव। अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥५-७३-११॥
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन्। यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥५-७३-१२॥
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः। हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ॥५-७३-१३॥
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम्। तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परन्तप ॥५-७३-१४॥
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते। पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ॥५-७३-१५॥
अहो पार्थ निमित्तानि विपरीतानि पश्यसि। स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥५-७३-१६॥
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि। कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥५-७३-१७॥
उद्वेपते ते हृदयं मनस्ते प्रविषीदति। ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥५-७३-१८॥
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम्। वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥५-७३-१९॥
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी। मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ॥५-७३-२०॥
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम्। यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥५-७३-२१॥
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत। उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥५-७३-२२॥
न चैतदनुरूपं ते यत्ते ग्लानिररिंदम। यदोजसा न लभते क्षत्रियो न तदश्नुते ॥५-७३-२३॥