05.074
वैशम्पायन उवाच॥
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः। सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥५-७४-१॥
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत। प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् ॥५-७४-२॥
वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः। उत वा मां न जानासि प्लवन्ह्रद इवाल्पवः । तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ॥५-७४-३॥
कथं हि भीमसेनं मां जानन्कश्चन माधव। ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि ॥५-७४-४॥
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन। आत्मनः पौरुषं चैव बलं च न समं परैः ॥५-७४-५॥
सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः। अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ॥५-७४-६॥
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः। अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ ॥५-७४-७॥
यदीमे सहसा क्रुद्धे समेयातां शिले इव। अहमेते निगृह्णीयां बाहुभ्यां सचराचरे ॥५-७४-८॥
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव। य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ॥५-७४-९॥
हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम्। मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ॥५-७४-१०॥
युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः। अधः पादतलेनैतानधिष्ठास्यामि भूतले ॥५-७४-११॥
न हि त्वं नाभिजानासि मम विक्रममच्युत। यथा मया विनिर्जित्य राजानो वशगाः कृताः ॥५-७४-१२॥
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम्। विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन ॥५-७४-१३॥
किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ। यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ॥५-७४-१४॥
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि। मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा ॥५-७४-१५॥
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान्। द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ॥५-७४-१६॥
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः। सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ॥५-७४-१७॥
किं तु सौहृदमेवैतत्कृपया मधुसूदन। सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् ॥५-७४-१८॥