Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.078
नकुल उवाच॥
उक्तं बहुविधं वाक्यं धर्मराजेन माधव। धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ॥५-७८-१॥
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव। संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥५-७८-२॥
तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम्। आत्मनश्च मतं वीर कथितं भवतासकृत् ॥५-७८-३॥
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्। यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥५-७८-४॥
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव। प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम ॥५-७८-५॥
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा। अनित्यमतयो लोके नराः पुरुषसत्तम ॥५-७८-६॥
अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु। अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥५-७८-७॥
अस्माकमपि वार्ष्णेय वने विचरतां तदा। न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ॥५-७८-८॥
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः। अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥५-७८-९॥
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान्। आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥५-७८-१०॥
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम्। ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥५-७८-११॥
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्। सहदेवं च मां चैव त्वां च रामं च केशव ॥५-७८-१२॥
सात्यकिं च महावीर्यं विराटं च सहात्मजम्। द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ॥५-७८-१३॥
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्। मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥५-७८-१४॥
स भवान्गमनादेव साधयिष्यत्यसंशयम्। इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥५-७८-१५॥
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः। श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ ॥५-७८-१६॥
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्। तं च पापसमाचारं सहामात्यं सुयोधनम् ॥५-७८-१७॥
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन। कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि ॥५-७८-१८॥