05.079
सहदेव उवाच॥
यदेतत्कथितं राज्ञा धर्म एष सनातनः। यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम ॥५-७९-१॥
यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह। तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥५-७९-२॥
कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम्। अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥५-७९-३॥
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः। धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥५-७९-४॥
सात्यकिरुवाच॥
सत्यमाह महाबाहो सहदेवो महामतिः। दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥५-७९-५॥
जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने। तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥५-७९-६॥
तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः। वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥५-७९-७॥
वैशम्पायन उवाच॥
एवं वदति वाक्यं तु युयुधाने महामतौ। सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥५-७९-८॥
सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन्। साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥५-७९-९॥