Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.080
वैशम्पायन उवाच॥
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम्। कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता ॥५-८०-१॥
सुता द्रुपदराजस्य स्वसितायतमूर्धजा। सम्पूज्य सहदेवं च सात्यकिं च महारथम् ॥५-८०-२॥
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः। अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥५-८०-३॥
विदितं ते महाबाहो धर्मज्ञ मधुसूदन। यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥५-८०-४॥
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन। यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ॥५-८०-५॥
युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव। यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ॥५-८०-६॥
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते। कुशस्थलं वृकस्थलमासन्दी वारणावतम् ॥५-८०-७॥
अवसानं महाबाहो किञ्चिदेव तु पञ्चमम्। इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥५-८०-८॥
तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः। युधिष्ठिरस्य दाशार्ह ह्रीमतः सन्धिमिच्छतः ॥५-८०-९॥
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः। सन्धिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथञ्चन ॥५-८०-१०॥
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह। धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ॥५-८०-११॥
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन। तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥५-८०-१२॥
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः। मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥५-८०-१३॥
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत। त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥५-८०-१४॥
एतत्समर्थं पार्थानां तव चैव यशस्करम्। क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ॥५-८०-१५॥
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः। अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥५-८०-१६॥
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात्। गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥५-८०-१७॥
यथावध्ये भवेद्दोषो वध्यमाने जनार्दन। स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥५-८०-१८॥
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु। पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः ॥५-८०-१९॥
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन। का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव ॥५-८०-२०॥
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता। धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥५-८०-२१॥
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः। महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥५-८०-२२॥
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः। अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥५-८०-२३॥
साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता। पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥५-८०-२४॥
जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु। दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता ॥५-८०-२५॥
निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु। त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे ॥५-८०-२६॥
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत्। वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे ॥५-८०-२७॥
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति। मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥५-८०-२८॥
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन। त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् ॥५-८०-२९॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साहं दासीकृताभवम् ॥५-८०-३०॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥५-८०-३१॥
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि। धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥५-८०-३२॥
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम्। सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् ॥५-८०-३३॥
सर्वलक्षणसम्पन्नं महाभुजगवर्चसम्। केशपक्षं वरारोहा गृह्य सव्येन पाणिना ॥५-८०-३४॥
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी। अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥५-८०-३५॥
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः। स्मर्तव्यः सर्वकालेषु परेषां सन्धिमिच्छता ॥५-८०-३६॥
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ। पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥५-८०-३७॥
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन। अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह ॥५-८०-३८॥
दुःशासनभुजं श्यामं सञ्छिन्नं पांसुगुण्ठितम्। यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे ॥५-८०-३९॥
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे। निधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥५-८०-४०॥
विदीर्यते मे हृदयं भीमवाक्षल्यपीडितम्। योऽयमद्य महाबाहुर्धर्मं समनुपश्यति ॥५-८०-४१॥
इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना। रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥५-८०-४२॥
स्तनौ पीनायतश्रोणी सहितावभिवर्षती। द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् ॥५-८०-४३॥
तामुवाच महाबाहुः केशवः परिसान्त्वयन्। अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥५-८०-४४॥
एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः। हतमित्रा हतबला येषां क्रुद्धासि भामिनि ॥५-८०-४५॥
अहं च तत्करिष्यामि भीमार्जुनयमैः सह। युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥५-८०-४६॥
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः। शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः ॥५-८०-४७॥
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत्। द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥५-८०-४८॥
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम्। हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ॥५-८०-४९॥