Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.081
अर्जुन उवाच॥
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः। सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥५-८१-१॥
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्। समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ॥५-८१-२॥
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम्। शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् ॥५-८१-३॥
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्। हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥५-८१-४॥
भगवानुवाच॥
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्। एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥५-८१-५॥
वैशम्पायन उवाच॥
ततो व्यपेते तमसि सूर्ये विमल उद्गते। मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे ॥५-८१-६॥
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे। स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ॥५-८१-७॥
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः। ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥५-८१-८॥
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः। उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥५-८१-९॥
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च। अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥५-८१-१०॥
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः। शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥५-८१-११॥
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह। उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥५-८१-१२॥
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः। न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ॥५-८१-१३॥
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः। प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥५-८१-१४॥
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम्। चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ॥५-८१-१५॥
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः। पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥५-८१-१६॥
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम्। मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥५-८१-१७॥
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्। यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥५-८१-१८॥
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः। स्नातैः सम्पादयां चक्रुः सम्पन्नैः सर्वसम्पदा ॥५-८१-१९॥
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्। सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥५-८१-२०॥
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम्। आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ॥५-८१-२१॥
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः। पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥५-८१-२२॥
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत। शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥५-८१-२३॥
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः। प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥५-८१-२४॥
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः। सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥५-८१-२५॥
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः। प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥५-८१-२६॥
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः। शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ॥५-८१-२७॥
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम्। प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥५-८१-२८॥
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः। पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥५-८१-२९॥
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः। भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥५-८१-३०॥
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः। द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥५-८१-३१॥
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह। संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥५-८१-३२॥
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः। राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥५-८१-३३॥
यो नैव कामान्न भयान्न लोभान्नार्थकारणात्। अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥५-८१-३४॥
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः। ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ॥५-८१-३५॥
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम्। सम्परिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ॥५-८१-३६॥
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला। उपवासतपःशीला सदा स्वस्त्ययने रता ॥५-८१-३७॥
देवतातिथिपूजासु गुरुशुश्रूषणे रता। वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन ॥५-८१-३८॥
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन। महतो मृत्युसम्बाधादुत्तरन्नौरिवार्णवात् ॥५-८१-३९॥
अस्मत्कृते च सततं यया दुःखानि माधव। अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ॥५-८१-४०॥
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम्। अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् ॥५-८१-४१॥
ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम। निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ॥५-८१-४२॥
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः। यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ॥५-८१-४३॥
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी। रुदतीमपहायैनामुपगच्छाम यद्वनम् ॥५-८१-४४॥
न नूनं म्रियते दुःखैः सा चेज्जीवति केशव। तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ॥५-८१-४५॥
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो। धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ॥५-८१-४६॥
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम्। द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥५-८१-४७॥
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम्। अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ॥५-८१-४८॥
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः। अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥५-८१-४९॥
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम्। अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ॥५-८१-५०॥
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये। अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ॥५-८१-५१॥
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च। प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥५-८१-५२॥
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित्। अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥५-८१-५३॥
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः। मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥५-८१-५४॥
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान्। धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥५-८१-५५॥
तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः। वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ॥५-८१-५६॥
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम्। अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥५-८१-५७॥
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः। तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ॥५-८१-५८॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः। पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥५-८१-५९॥
अथापश्यन्महाबाहुरृषीनध्वनि केशवः। ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥५-८१-६०॥
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः। यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥५-८१-६१॥
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः। ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ॥५-८१-६२॥
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः। भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ॥५-८१-६३॥
किं वा भगवतां कार्यमहं किं करवाणि वः। केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम् ॥५-८१-६४॥
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम्। परिष्वज्य च गोविन्दं पुरा सुचरिते सखा ॥५-८१-६५॥
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः। राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ॥५-८१-६६॥
देवासुरस्य द्रष्टारः पुराणस्य महाद्युते। समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ॥५-८१-६७॥
सभासदश्च राजानस्त्वां च सत्यं जनार्दन। एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ॥५-८१-६८॥
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव। त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ॥५-८१-६९॥
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः। त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥५-८१-७०॥
तव वाक्यानि दिव्यानि तत्र तेषां च माधव। श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ॥५-८१-७१॥
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम्। याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ॥५-८१-७२॥