Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.082
वैशम्पायन उवाच॥
प्रयान्तं देवकीपुत्रं परवीररुजो दश। महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥५-८२-१॥
पदातीनां सहस्रं च सादिनां च परन्तप। भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ॥५-८२-२॥
जनमेजय उवाच॥
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः। कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥५-८२-३॥
वैशम्पायन उवाच॥
तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः। तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ॥५-८२-४॥
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत। अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥५-८२-५॥
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः। विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन ॥५-८२-६॥
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत। उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥५-८२-७॥
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा। न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना ॥५-८२-८॥
प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते। सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥५-८२-९॥
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः। आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ॥५-८२-१०॥
यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत। तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥५-८२-११॥
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः। समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥५-८२-१२॥
स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः। अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ॥५-८२-१३॥
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः। स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥५-८२-१४॥
स शालिभवनं रम्यं सर्वसस्यसमाचितम्। सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ॥५-८२-१५॥
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान्। पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ॥५-८२-१६॥
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः। नोद्विग्नाः परचक्राणामनयानामकोविदाः ॥५-८२-१७॥
उपप्लव्यादथायान्तं जनाः पुरनिवासिनः। पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥५-८२-१८॥
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम्। अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् ॥५-८२-१९॥
वृकस्थलं समासाद्य केशवः परवीरहा। प्रकीर्णरश्मावादित्ये विमले लोहितायति ॥५-८२-२०॥
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि। रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥५-८२-२१॥
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः। मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ॥५-८२-२२॥
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः। युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ॥५-८२-२३॥
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः। क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ॥५-८२-२४॥
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप। आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥५-८२-२५॥
तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम्। पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥५-८२-२६॥
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम्। न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने ॥५-८२-२७॥
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः। अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः ॥५-८२-२८॥
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः। भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥५-८२-२९॥