05.083
वैशम्पायन उवाच॥
तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम्। धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥५-८३-१॥
द्रोणं च सञ्जयं चैव विदुरं च महामतिम्। दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् ॥५-८३-२॥
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन। स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ॥५-८३-३॥
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः। पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥५-८३-४॥
उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी। स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥५-८३-५॥
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः। तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥५-८३-६॥
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः। पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥५-८३-७॥
स चेत्तुष्यति दाशार्ह उपचारैररिंदमः। कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥५-८३-८॥
तस्य पूजार्थमद्यैव संविधत्स्व परन्तप। सभाः पथि विधीयन्तां सर्वकामसमाहिताः ॥५-८३-९॥
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै। तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥५-८३-१०॥
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्। ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः ॥५-८३-११॥
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा। सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥५-८३-१२॥
ततो देशेषु देशेषु रमणीयेषु भागशः। सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥५-८३-१३॥
आसनानि विचित्राणि युक्तानि विविधैर्गुणैः। स्त्रियो गन्धानलङ्कारान्सूक्ष्माणि वसनानि च ॥५-८३-१४॥
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च। माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥५-८३-१५॥
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले। विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥५-८३-१६॥
एतद्विधाय वै सर्वं देवार्हमतिमानुषम्। आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥५-८३-१७॥
ताः सभाः केशवः सर्वा रत्नानि विविधानि च। असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥५-८३-१८॥