05.084
धृतराष्ट्र उवाच॥
उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः। वृकस्थले निवसति स च प्रातरिहेष्यति ॥५-८४-१॥
आहुकानामधिपतिः पुरोगः सर्वसात्वताम्। महामना महावीर्यो महामात्रो जनार्दनः ॥५-८४-२॥
स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः। त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥५-८४-३॥
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते। आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥५-८४-४॥
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने। प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु ॥५-८४-५॥
एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः। चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥५-८४-६॥
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः। अष्टानुचरमेकैकमष्टौ दास्यामि केशवे ॥५-८४-७॥
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम्। शतमस्मै प्रदास्यामि दासानामपि तावतः ॥५-८४-८॥
आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम्। तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ॥५-८४-९॥
अजिनानां सहस्राणि चीनदेशोद्भवानि च। तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥५-८४-१०॥
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः। तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः ॥५-८४-११॥
एकेनापि पतत्यह्ना योजनानि चतुर्दश। यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥५-८४-१२॥
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते। ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥५-८४-१३॥
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते। प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलङ्कृताः ॥५-८४-१४॥
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः। वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥५-८४-१५॥
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम्। द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥५-८४-१६॥
सस्त्रीपुरुषबालं हि नगरं मधुसूदनम्। उदीक्षते महात्मानं भानुमन्तमिव प्रजाः ॥५-८४-१७॥
महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम्। जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥५-८४-१८॥
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम्। तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलङ्कृतम् ॥५-८४-१९॥
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम्। शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥५-८४-२०॥
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च। यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ॥५-८४-२१॥