05.085
विदुर उवाच॥
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः। सम्भावितश्च लोकस्य संमतश्चासि भारत ॥५-८५-१॥
यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः। शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥५-८५-२॥
लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे। धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः ॥५-८५-३॥
सदैव भावितो लोको गुणौघैस्तव पार्थिव। गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥५-८५-४॥
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः। राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् ॥५-८५-५॥
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु। एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥५-८५-६॥
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्। एतदिच्छसि कृष्णाय सत्येनात्मानमालभे ॥५-८५-७॥
मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण। जानामि ते मतं राजन्गूढं बाह्येन कर्मणा ॥५-८५-८॥
पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप। न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति ॥५-८५-९॥
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि। अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि ॥५-८५-१०॥
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया। अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥५-८५-११॥
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्। अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥५-८५-१२॥
अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात्। अन्यत्कुशलसम्प्रश्नान्नैषिष्यति जनार्दनः ॥५-८५-१३॥
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः। तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः ॥५-८५-१४॥
आशंसमानः कल्याणं कुरूनभ्येति केशवः। येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥५-८५-१५॥
शममिच्छति दाशार्हस्तव दुर्योधनस्य च। पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥५-८५-१६॥
पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे। वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥५-८५-१७॥