Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.086
दुर्योधन उवाच॥
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते। अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥५-८६-१॥
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने। अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥५-८६-२॥
देशः कालस्तथायुक्तो न हि नार्हति केशवः। मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥५-८६-३॥
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते। न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥५-८६-४॥
स हि पूज्यतमो देवः कृष्णः कमललोचनः। त्रयाणामपि लोकानां विदितं मम सर्वथा ॥५-८६-५॥
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो। विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥५-८६-६॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः। वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥५-८६-७॥
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः। नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः ॥५-८६-८॥
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम्। सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥५-८६-९॥
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया। वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥५-८६-१०॥
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः। तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥५-८६-११॥
दुर्योधन उवाच॥
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम्। तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह ॥५-८६-१२॥
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम्। परायणं पाण्डवानां नियंस्यामि जनार्दनम् ॥५-८६-१३॥
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा। पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति ॥५-८६-१४॥
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः। न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥५-८६-१५॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्। धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥५-८६-१६॥
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः। मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥५-८६-१७॥
दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः। अपापः कौरवेयेषु कथं बन्धनमर्हति ॥५-८६-१८॥
भीष्म उवाच॥
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः। वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः ॥५-८६-१९॥
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्। वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥५-८६-२०॥
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः। तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥५-८६-२१॥
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः। नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथञ्चन ॥५-८६-२२॥
वैशम्पायन उवाच॥
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्। उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥५-८६-२३॥