Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.087
वैशम्पायन उवाच॥
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्। ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥५-८७-१॥
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप। पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥५-८७-२॥
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः। दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ॥५-८७-३॥
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः। यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ॥५-८७-४॥
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा। द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥५-८७-५॥
कृष्णसंमाननार्थं च नगरं समलङ्कृतम्। बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ॥५-८७-६॥
न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ। न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥५-८७-७॥
राजमार्गे नरा न स्म सम्भवन्त्यवनिं गताः। तथा हि सुमहद्राजन्हृषीकेशप्रवेशने ॥५-८७-८॥
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि। प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ॥५-८७-९॥
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः। प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥५-८७-१०॥
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः। पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥५-८७-११॥
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः। वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ॥५-८७-१२॥
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः। सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥५-८७-१३॥
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः। आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥५-८७-१४॥
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्। स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥५-८७-१५॥
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः। यथावयः समीयाय राजभिस्तत्र माधवः ॥५-८७-१६॥
अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम्। कृपं च सोमदत्तं च समीयाय जनार्दनः ॥५-८७-१७॥
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्। शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥५-८७-१८॥
अथ गां मधुपर्कं चाप्युदकं च जनार्दने। उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥५-८७-१९॥
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून्। आस्ते सम्बन्धकं कुर्वन्कुरुभिः परिवारितः ॥५-८७-२०॥
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः। राजानं समनुज्ञाप्य निराक्रामदरिंदमः ॥५-८७-२१॥
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि। विदुरावसथं रम्यमुपातिष्ठत माधवः ॥५-८७-२२॥
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्। अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥५-८७-२३॥
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्। कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥५-८७-२४॥
प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः। धर्मनित्यस्य च तदा गतदोषस्य धीमतः ॥५-८७-२५॥
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्। क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ॥५-८७-२६॥