Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.088
वैशम्पायन उवाच॥
अथोपगम्य विदुरमपराह्णे जनार्दनः। पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ॥५-८८-१॥
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्। कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ॥५-८८-२॥
तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम्। चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ॥५-८८-३॥
साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम्। बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥५-८८-४॥
ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः। परस्परस्य सुहृदः संमताः समचेतसः ॥५-८८-५॥
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः। विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ॥५-८८-६॥
त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम्। अहार्षुश्च वनं यान्तः समूलं हृदयं मम ॥५-८८-७॥
अतदर्हा महात्मानः कथं केशव पाण्डवाः। ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ॥५-८८-८॥
बाला विहीनाः पित्रा ते मया सततलालिताः। अपश्यन्तः स्वपितरौ कथमूषुर्महावने ॥५-८८-९॥
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि। पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ॥५-८८-१०॥
ये स्म वारणशब्देन हयानां हेषितेन च। रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे ॥५-८८-११॥
शङ्खभेरीनिनादेन वेणुवीणानुनादिना। पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ॥५-८८-१२॥
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः। गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ॥५-८८-१३॥
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः। प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ॥५-८८-१४॥
ते नूनं निनदं श्रुत्वा श्वापदानां महावने। न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ॥५-८८-१५॥
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः। स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥५-८८-१६॥
बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम्। महावने व्यबोध्यन्त श्वापदानां रुतेन ते ॥५-८८-१७॥
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता। कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ॥५-८८-१८॥
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च। भरतस्य दिलीपस्य शिबेरौशीनरस्य च ॥५-८८-१९॥
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम्। शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसङ्गरः ॥५-८८-२०॥
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत्। अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ॥५-८८-२१॥
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः। प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥५-८८-२२॥
यः स नागायुतप्राणो वातरंहा वृकोदरः। अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः ॥५-८८-२३॥
कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन। शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥५-८८-२४॥
पराक्रमे शक्रसमो वायुवेगसमो जवे। महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥५-८८-२५॥
क्रोधं बलममर्षं च यो निधाय परन्तपः। जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥५-८८-२६॥
तेजोराशिं महात्मानं बलौघममितौजसम्। भीमं प्रदर्शनेनापि भीमसेनं जनार्दन । तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ॥५-८८-२७॥
आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत। अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा । द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥५-८८-२८॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥५-८८-२९॥
तेजसादित्यसदृशो महर्षिप्रतिमो दमे। क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥५-८८-३०॥
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन। आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥५-८८-३१॥
यस्य बाहुबलं घोरं कौरवाः पर्युपासते। स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥५-८८-३२॥
योऽपाश्रयः पाण्डवानां देवानामिव वासवः। स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥५-८८-३३॥
दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित्। मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥५-८८-३४॥
सहदेवो महेष्वासः शूरः समितिशोभनः। भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥५-८८-३५॥
सदैव सहदेवस्य भ्रातरो मधुसूदन। वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥५-८८-३६॥
ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम्। शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥५-८८-३७॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः। भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः ॥५-८८-३८॥
चित्रयोधी च नकुलो महेष्वासो महाबलः। कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥५-८८-३९॥
सुखोचितमदुःखार्हं सुकुमारं महारथम्। अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥५-८८-४०॥
पक्ष्मसम्पातजे काले नकुलेन विनाकृता। न लभामि सुखं वीर साद्य जीवामि पश्य माम् ॥५-८८-४१॥
सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन। कुलीना शीलसम्पन्ना सर्वैः समुदिता गुणैः ॥५-८८-४२॥
पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी। प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत ॥५-८८-४३॥
महाभिजनसम्पन्ना सर्वकामैः सुपूजिता। ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥५-८८-४४॥
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः। उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥५-८८-४५॥
चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम। पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥५-८८-४६॥
न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम्। द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ॥५-८८-४७॥
न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः। भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥५-८८-४८॥
न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम्। यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् ॥५-८८-४९॥
आनायितामनार्येण क्रोधलोभानुवर्तिना। सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥५-८८-५०॥
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः। कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ॥५-८८-५१॥
तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम्। वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥५-८८-५२॥
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः। क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥५-८८-५३॥
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्। नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ॥५-८८-५४॥
पूर्वैराचरितं यत्तत्कुराजभिररिंदम। अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥५-८८-५५॥
तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ। धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ॥५-८८-५६॥
निर्वासनं च नगरात्प्रव्रज्या च परन्तप। नानाविधानां दुःखानामावासोऽस्मि जनार्दन । अज्ञातचर्या बालानामवरोधश्च केशव ॥५-८८-५७॥
न स्म क्लेशतमं मे स्यात्पुत्रैः सह परन्तप। दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ॥५-८८-५८॥
दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः। न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ॥५-८८-५९॥
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम्। अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह । नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् ॥५-८८-६०॥
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम्। येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता ॥५-८८-६१॥
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम्। अददात्कुन्तिभोजाय सखा सख्ये महात्मने ॥५-८८-६२॥
साहं पित्रा च निकृता श्वशुरैश्च परन्तप। अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥५-८८-६३॥
यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः। पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ॥५-८८-६४॥
हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनञ्जयः। भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥५-८८-६५॥
नाहं तामभ्यसूयामि नमो धर्माय वेधसे। कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥५-८८-६६॥
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति। त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ॥५-८८-६७॥
न मां माधव वैधव्यं नार्थनाशो न वैरिता। तथा शोकाय भवति यथा पुत्रैर्विनाभवः ॥५-८८-६८॥
याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्। धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे ॥५-८८-६९॥
इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम्। धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् ॥५-८८-७०॥
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः। अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ॥५-८८-७१॥
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम्। भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥५-८८-७२॥
पराश्रया वासुदेव या जीवामि धिगस्तु माम्। वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी ॥५-८८-७३॥
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम्। यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥५-८८-७४॥
अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति। लोकसम्भाविताः सन्तः सुनृशंसं करिष्यथ ॥५-८८-७५॥
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः। काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् ॥५-८८-७६॥
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा। विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥५-८८-७७॥
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः। मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥५-८८-७८॥
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्। अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ॥५-८८-७९॥
विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ। भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥५-८८-८०॥
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता। दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ॥५-८८-८१॥
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्। पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ॥५-८८-८२॥
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः। सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति । यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः ॥५-८८-८३॥
न दुःखं राज्यहरणं न च द्यूते पराजयः। प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् ॥५-८८-८४॥
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता। अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् ॥५-८८-८५॥
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती ॥५-८८-८६॥
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन। रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥५-८८-८७॥
साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम। भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥५-८८-८८॥
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्। पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥५-८८-८९॥
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः। शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥५-८८-९०॥
महाकुलीना भवती ह्रदाद्ध्रदमिवागता। ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥५-८८-९१॥
वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः। सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥५-८८-९२॥
निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ। एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ॥५-८८-९३॥
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः। न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥५-८८-९४॥
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः। उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥५-८८-९५॥
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥५-८८-९६॥
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया। आत्मानं च कुशलिनं निवेद्याहुरनामयम् ॥५-८८-९७॥
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान्। ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥५-८८-९८॥
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम्। पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥५-८८-९९॥
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन। यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ॥५-८८-१००॥
अविलोपेन धर्मस्य अनिकृत्या परन्तप। प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ॥५-८८-१०१॥
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा। त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥५-८८-१०२॥
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्। यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥५-८८-१०३॥
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्। प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥५-८८-१०४॥